श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः
ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:
अष्टादशपुराणेषु घटिकाचलसंज्ञितम् ।
दिव्यक्षेत्रमिदं पुण्यं भक्तानां मोक्षदं स्मृतम् ॥ १
அஷ்டாத³ஶபுராணேஷு க⁴டிகாசலஸஂஜ்ஞிதம் ।
தி³வ்யக்ஷேத்ரமிதம்³ புண்யம் ப⁴க்தாநாம் மோக்ஷதம்³ ஸ்ம்ருʼதம் ॥ 1
इदं पुण्यं दिव्यक्षेत्रं अष्टादशपुराणेषु घटिकाचलसंज्ञितं स्मृतम्। (इदं) भक्तानां मोक्षदम् (इति स्मृतम्)।
This sacred Divya Kṣetra is known in the eighteen Purāṇas by the name Ghaṭikācala (24 Minutes Mountain / Thiru Kadikai). It is remembered as a holy place that bestows liberation upon devotees.
प्रार्थितो मुनिभिर्देवैः योगमुद्रां समाश्रितः ।
नृसिंहो भगवान् विष्णुर्नित्यवासं करोति हि ॥ २
ப்ரார்தி²தோமுநிபி⁴ர்தே³வை: யோக³முத்³ராம் ஸமாஶ்ரித:I
ந்ருʼஸிம்ஹோ ப⁴க³வாந் விஷ்ணுர்நித்யவாஸம் கரோதி ஹி ॥ 2
भगवान् विष्णुः नृसिंहः मुनिभिः देवैः प्रार्थितः योगमुद्रां समाश्रितः नित्यवासं करोति हि।
Lord Viṣṇu, in the form of Narasiṃha, having been requested by the sages and gods, assuming the yogic posture, remains here eternally.
Top of Form
Bottom of Form
य एकां घटिकामत्र ध्यायेद्वै श्रद्धया नरः ।
प्राप्नुयात् किल मोक्षं स अत्र नास्ति हि संशयः ॥ ३
ய ஏகாம் க⁴டிகாமத்ர த்⁴யாயேத்³வை ஶ்ரத்³த⁴யா நர: ।
ப்ராப்நுயாத் கில மோக்ஷம் ஸ அத்ர நாஸ்தி ஹி ஸம்ஶய:॥ 3
यः नरः अत्र एकां घटिकां श्रद्धया ध्यायेत्, सः किल मोक्षं प्राप्नुयात्; अत्र संशयः नास्ति हि ।
Whoever meditates here with faith for a single ghaṭikā (24 Miniutes) indeed attains liberation, there is no doubt in that.
विश्वामित्रो मुनिर्ध्यात्वा नृसिंहं पर्वतोत्तमे ।
ब्रह्मर्षिपदवीं प्राप महाभागो महायशाः ॥ ४
விஶ்வாமித்ரோ முநிர்த்⁴யாத்வா ந்ருʼஸிம்ஹம் பர்வதோத்தமே ।
ப்³ரஹ்மர்ஷிபத³வீம் ப்ராப மஹாபா⁴கோ³ மஹாயஶா: ॥4
महाभागः महायशाः विश्वामित्रः मुनिः पर्वतोत्तमे नृसिंहं ध्यात्वा ब्रह्मर्षिपदवीं प्राप।
The illustrious sage Viśvāmitra, having meditated upon Lord Narasiṃha on the sacred hill, attained the post/ title of a Brahmarṣi.Top of Form
Bottom of Form
हनुमानत्र संप्राप्य नृसिंहाज्ञां तु पालयन् ।
कनीयसि स शैलेSत्र निवसति महामनाः ॥ ५
ஹநுமாநத்ர ஸம்ப்ராப்ய ந்ருʼஸிம்ஹாஜ்ஞாம்து பாலயந் ।
கநீயஸி ஸ ஶைலேத்ர நிவஸதி மஹாமநா: ॥ 5
महामनाः हनुमान् अत्र सम्प्राप्य नृसिंहाज्ञां पालयन् कनीयसि शैले अत्र निवसति।
The noble Hanumān, having come here and obeying the command of Lord Narasiṃha, dwells on the smaller hill.
शङ्खचक्रधरो वीरो भक्तानां हितकाम्यया ।
कपीश्वरो महाभागो निवसत्यत्र सर्वदा ॥ ६
ஶங்க²சக்ரத⁴ரோ வீரோ ப⁴க்தாநாம் ஹிதகாம்யயா ।
கபீஶ்வரோ மஹாபா⁴கோ³ நிவஸத்யத்ர ஸர்வதா³ ॥ 6
महाभागः कपीश्वरः भक्तानां हितकाम्यया शङ्खचक्रधरः वीरः अत्र सर्वदा निवसति।
The illustrious lord of monkeys, heroic and bearing the conch and discus for the welfare of the devotees, dwells here always.
पूज्यते भक्तजनैर्हि योगनृसिंह ईश्वरः ।
भूतबाधाविनाशाय रोगनिवारणाय च ॥ ७
பூஜ்யதே ப⁴க்தஜநைர்ஹி யோக³ந்ருʼஸிம்ஹ ஈஶ்வர: ।
பூ⁴தபா³தா⁴விநாஶாய ரோக³நிவாரணாய ச ॥ 7
योगनृसिंहः ईश्वरः भक्तजनैः भूतबाधाविनाशाय रोगनिवारणाय च हि पूज्यते।
Lord Yoga-Narasiṃha is worshipped by the devotees for the destruction of the affliction caused by evil spirits and for the removal of diseases.
सा क्षेत्रेSमृतवल्लीति विश्रुता तस्य वल्लभा ।
वन्दे लक्ष्मीसमायुक्तं श्रीघटिकाचलेश्वरम् ॥ ८
ஸா க்ஷேத்ரேம்ருʼதவல்லீதி விஶ்ருதா தஸ்ய வல்லபா⁴ ।
வந்தே³ லக்ஷ்மீஸமாயுக்தம் ஶ்ரீக⁴டிகாசலேஶ்வரம் ॥ ௮
सा तस्य वल्लभा क्षेत्रे अमृतवल्ली इति विश्रुता। (अहं) लक्ष्मीसमायुक्तं श्रीघटिकाचलेश्वरं वन्दे।
His beloved consort is renowned in this sacred place as Amṛtavallī. I bow to the Lord of Śrī Ghaṭikācala, together with Lakṣmī. Srinivasa Sundara Raja Dasan