श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः
ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:
वीक्षारण्ये स्थले दिव्ये शालिहोत्रो महामुनिः ।
नारायणकृपामाप्तुं तपस्तेपे दृढव्रतः ॥ १
வீக்ஷாரண்யே ஸ்த²லே தி³வ்யே ஶாலிஹோத்ரோ மஹாமுநி: ।
நாராயணக்ருʼபாமாப்தும் தபஸ்தேபே த்³ருʼட⁴வ்ரத: ॥ 1
महामुनिः शालिहोत्रः दृढव्रतः दिव्ये वीक्षारण्ये स्थले नारायणकृपाम् आप्तुं तपः तेपे।
The great sage Śālihotra, steadfast in his vows, performed penance in the sacred place of Vīkṣāraṇya (Thiruvallur) in order to obtain the grace of Lord Nārāyaṇa.
वर्षमुपोष्य स सञ्चित्य तण्डुलान् यत्नतः किल ।
वर्षात्यये मुनिर्भक्त्या भगवते न्यवेदयत् ॥ २ ॥
வர்ஷமுபோஷ்ய ஸ ஸஞ்சித்ய தண்டு³லாந் யத்நத: கில।
வர்ஷாத்யயே முநிர்ப⁴க்த்யா ப⁴க³வதே ந்யவேத³யத்॥ 2
सः वर्षम् उपोष्य यत्नतः तण्डुलान् सञ्चित्य, वर्षात्यये मुनिः भक्त्या भगवते न्यवेदयत्।
Having fasted for a year, he carefully collected rice grains, and at the end of the year the sage devotedly offered them to the Lord.
अतिथिं तु समालोक्य भुक्तशेषबुभुक्षया ।
शालिहोत्रो महाभागो न प्रारभत भोजनम् ॥ ३
அதிதிஂ² தும் ஸமாலோக்ய பு⁴க்தஶேஷபு³பு⁴க்ஷயா ।
ஶாலிஹோத்ரோ மஹாபா⁴கோ³ ந ப்ராரப⁴த போ⁴ஜநம்॥3
महाभागः शालिहोत्रः अतिथिं समालोक्य भुक्तशेषबुभुक्षया भोजनं न प्रारभत।
The illustrious sage Śālihotra, though desirous of eating the remaining food, did not begin his meal looking forward for some guest.
क्षणे तस्मिन् महाविष्णुर्वृद्धब्राह्मणविग्रहः ।
दीर्घमार्गपरिश्रान्तो बुभुक्षित इवागतः ॥ ४ ॥
க்ஷணே தஸ்மிந் மஹாவிஷ்ணு: வ்ருʼத்³த⁴ப்³ராஹ்மணவிக்³ரஹ: ।
தீ³ர்க⁴மார்க³பரிஶ்ராந்தோ பு³பு⁴க்ஷித இவாக³த: ॥ 4
तस्मिन् क्षणे महाविष्णुः वृद्धब्राह्मणविग्रहः दीर्घमार्गपरिश्रान्तः बुभुक्षितः इव आगतः।
At that very moment, the great Lord Viṣṇu, assuming the form of an aged Brāhmaṇa, arrived as though weary from a long journey and seemingly hungry.
कुर्वन् वृद्धाय सत्कारं यथाशास्त्रं यथाविधि ।
ददावन्नं स्वभागं च महामुनिर्महामनाः ॥ ५ ॥
குர்வந் வ்ருʼத்³தா⁴ய ஸத்காரம் யதா²ஶாஸ்த்ரம் யதா²விதி⁴ ।
த³தா³வந்நம் ஸ்வபா⁴கம்³ ச மஹாமுநிர்மஹாமநா: ॥5
महामनाः महामुनिः वृद्धाय यथाशास्त्रं यथाविधि सत्कारं कुर्वन् अन्नं स्वभागं च ददौ।
The noble great sage, honouring the old man according to the scriptures and proper custom, gave him food and even his own share.
भुक्त्वान्नं भगवान् प्राह— ‘कुत्र शेये महामुने?’ ।
इत्युक्ते हरये तस्मै स्वां कुटीं प्रददौ मुनिः ॥ ६
பு⁴க்த்வாந்நம் ப⁴க³வாந் ப்ராஹ ‘குத்ர ஶேயே மஹாமுநே।
இத்யுக்தே ஹரயே தஸ்மை ஸ்வாம் குடீம் ப்ரத³தௌ³ முநி: ॥6
भगवान् अन्नं भुक्त्वा ‘महामुने! कुत्र शेये?’ इति प्राह। इति उक्ते, मुनिः तस्मै हरये स्वां कुटीं प्रददौ।
After eating the food, the Lord said, ‘O great sage, where shall I sleep?’ When these words were spoken, the sage offered his own hut to that Lord Hari. (kutra sheye in tamil translated as “Evvul” and the place became known as Thiru Evvul)
शालिहोत्रमहर्षेर्हि भक्त्या तुष्टो जनार्दनः ।
स्वस्वरूपं दर्शयित्वास्मै मुक्तिं च प्रददौ प्रभुः ॥ ७
ஶாலிஹோத்ரமஹர்ஷேர்ஹி ப⁴க்த்யா துஷ்டோ ஜநார்த³ந:।
ஸ்வஸ்வரூபம் த³ர்ஶயித்வாஸ்மை முக்திம் ச ப்ரத³தௌ³ ப்ரபு:⁴ ॥ 7
जनार्दनः प्रभुः शालिहोत्रमहर्षेः भक्त्या तुष्टः (सन्) अस्मै स्वस्वरूपं दर्शयित्वा मुक्तिं च प्रददौ।
Pleased by the devotion of the great sage Śālihotra, Lord Janārdana revealed His own divine form to him and granted him liberation.
वीरराघवनाम्नैव भगवानत्र पूज्यते ।
वसुमत्या समायुक्तो दिव्यदेशे विराजते ॥ ८ ॥
வீரராக⁴வநாம்நைவ ப⁴க³வாநத்ர பூஜ்யதே ।
வஸுமத்யா ஸமாயுக்தோ தி³வ்யதே³ஶே விராஜதே ॥ 8
भगवान् अत्र वीरराघवनाम्ना एव पूज्यते। (सः) वसुमत्या समायुक्तः दिव्यदेशे विराजते।
Here the Lord is worshipped by the name Vīrarāghava. United with Goddess Vasumatī, He shines resplendently in this sacred Divyadeśa.
रोगपीडितभक्तानां व्याधिनाशाय सर्वदा ।
पूज्यते भगवानत्र स वैद्यवीरराघवः ॥ ९
ரோக³பீடி³தப⁴க்தாநாம் வ்யாதி⁴நாஶாய ஸர்வதா³ ।
பூஜ்யதே ப⁴க³வாநத்ர ஸ வைத்³யவீரராக⁴வ: ॥ 9
रोगपीडितभक्तानां व्याधिनाशाय सः भगवान् वैद्यवीरराघवः अत्र सर्वदा पूज्यते।
Here Lord Vaidya Vīrarāghava is always worshipped for the destruction of the diseases of devotees afflicted by illness.
भगवते नमस्तस्मै श्रीवीरराघवाय च ।
वसुमत्यै नमस्तस्यै महालक्ष्म्यै मुहुर्मुहुः ॥ १०
ப⁴க³வதே நமஸ்தஸ்மை ஶ்ரீவீரராக⁴வாய ச ।
வஸுமத்யை நமஸ்தஸ்யை மஹாலக்ஷ்ம்யை முஹுர்முஹு: ॥ 10
तस्मै श्रीवीरराघवाय च भगवते नमः। तस्यै वसुमत्यै महालक्ष्म्यै मुहुः मुहुः नमः।
Salutations to that Lord Śrī Vīrarāghava. Repeated salutations to that Goddess Vasumatī, who is Mahālakṣmī.
Srinivasa Sundara Raja Dasan