श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः
ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:
आसीत् पूर्वं प्रदेशोSयमरण्यं सघनं महत्।
रमणीयं लताकीर्णं नानावृक्षैः सुशोभितम् ॥ १
ஆஸீத் பூர்வம் ப்ரதே³ஶோயமரண்யம் ஸக⁴நம் மஹத்।
ரமணீயம் லதாகீர்ணம் நாநாவ்ருʼக்ஷை: ஸுஶோபி⁴தம் ॥1
अयं प्रदेशः पूर्वं सघनं महत् अरण्यं आसीत्, रमणीयं लताकीर्णं नानावृक्षैः सुशोभितम्।
Formerly, this region was a dense great forest, charming, covered with creepers, and adorned with many kinds of trees.
देशेSस्मिन् स तपः कृत्वा नारायणदिदृक्षया ।
भगवद्दर्शनं प्राप्य लेभे परां गतिं ध्रुवः ॥ २
தே³ஶேஸ்மிந் ஸ தபஃ க்ருத்வா நாராயணதி³த்³ருʼக்ஷயா।
ப⁴க³வத்³த³ர்ஶநம் ப்ராப்ய லேபே⁴ பராம் க³திம் த்⁴ருவ:॥ 2
ध्रुवः अस्मिन् देशे नारायणदिदृक्षया तपः कृत्वा भगवद्दर्शनं प्राप्य परां गतिं लेभे।
In this sacred place, Dhruva performed penance with the desire of beholding Lord Nārāyaṇa. Having obtained the vision of the Lord, he attained the supreme state.
मार्कण्डेयो महर्षिश्च ध्रुवमार्गमनुस्मरन् ।
अत्रैव तपसा विप्रः प्राप्तवान् दर्शनं हरेः ॥ ३ ॥
மார்கண்டே³யோ மஹர்ஷிஶ்ச த்⁴ருவமார்க³மநுஸ்மரந்।
அத்ரைவ தபஸா விப்ர: ப்ராப்தவாந் த³ர்ஶநம் ஹரே:॥3
मार्कण्डेयः महर्षिः च ध्रुवमार्गम् अनुस्मरन् अत्रैव तपसा हरेः दर्शनं प्राप्तवान्।
The great sage Mārkaṇḍeya, following the path of Dhruva, also performed penance here itself and obtained the vision of Lord Hari.
दीप्तकान्तितनुर्विष्णुः सर्वसौन्दर्यसम्पन्नः ।
तस्मात् सौन्दर्यराजेति भक्तजनैः स विश्रुतः ॥ ४
தீ³ப்தகாந்திதநுர்விஷ்ணு: ஸர்வஸௌந்த³ர்யஸம்பந்ந:।
தஸ்மாத் ஸௌந்த³ர்யராஜேதி ப⁴க்தஜநை: ஸவிஶ்ருத:॥4
दीप्तकान्तितनुः विष्णुः सर्वसौन्दर्यसम्पन्नः (अस्ति)। तस्मात् सः भक्तजनैः ‘सौन्दर्यराजः’ इति विश्रुतः।
Lord Viṣṇu, whose body shines with radiant splendour and who is endowed with every kind of beauty, is therefore renowned among devotees as ‘Soundaryarāja’ (the King of Beauty, in tamil Soundararajan).
आदिशेषो महाभागो नागराजो हरिं प्रति ।
पुरा तताप तेनेदं नागपत्तनमित्यभूत् ॥ ५ ॥
ஆதி³ஶேஷோ மஹாபா⁴கோ³ நாக³ராஜோ ஹரிம் ப்ரதி ।
புரா ததாப தேநேதம்³ நாக³பத்தநமித்யபூ⁴த் ॥ 5
‘
महाभागः नागराजः आदिशेषः पुरा हरिं प्रति तताप। तेन इदं (क्षेत्रम्) ‘नागपत्तनम्’ इति अभूत्।
Formerly, the illustrious Ādiśeṣa, the king of serpents, performed penance directed towards Lord Hari. Therefore, this place came to be known as Nāgapattanam.
तस्मै सौन्दर्यराजाय भक्तजनप्रियाय च ।
तस्यै सौन्दर्यवल्ल्यै च नमो नमः पुनः पुनः ॥ ६ ॥
தஸ்மை ஸௌந்த³ர்யராஜாய ப⁴க்தஜநப்ரியாய ச ।
தஸ்யை ஸௌந்த³ர்யவல்ல்யை ச நமோ நம: புந: புந:॥6
भक्तजनप्रियाय तस्मै सौन्दर्यराजाय नमः नमः। तस्यै सौन्दर्यवल्ल्यै च पुनः पुनः नमः नमः।
Repeated salutations to Lord Soundaryarāja, who is dear to His devotees; and repeated salutations to Goddess Soundaryavalli. Srinivasa Sundara Raja Dasan