धर्मक्षेत्रे कुरुक्षेत्रे पार्थस्य रथमास्थितः ।
सारथ्यं कृतवान् कृष्णो धर्मसंस्थापनाय वै ॥ १
த⁴ர்மக்ஷேத்ரே குருக்ஷேத்ரே பார்த²ஸ்ய ரத²மாஸ்தி²த: ।
ஸாரத்²யம் க்ருʼதவாந் க்ருʼஷ்ணோ த⁴ர்மஸம்ஸ்தா²பநாய வை ॥ 1
कृष्णः धर्मक्षेत्रे कुरुक्षेत्रे पार्थस्य रथम् आस्थितः धर्मसंस्थापनाय वै सारथ्यं कृतवान्।
In Kurukṣetra, the sacred field of dharma, Kṛṣṇa mounted Arjuna’s chariot and served as his charioteer for the establishment of righteousness.”
श्रीकुमुदपुरक्षेत्रे दिव्यदेशे मनोहरे ।
पार्थसारथिरूपेण भगवानत्र शोभते ॥ २
ஶ்ரீகுமுத³புரக்ஷேத்ரே தி³வ்யதே³ஶே மநோஹரே ।
பார்த²ஸாரதி²ரூபேண ப⁴க³வாநத்ர ஶோப⁴தே ॥ 2
श्रीकुमुदपुरक्षेत्रे मनोहरे दिव्यदेशे भगवान् पार्थसारथिरूपेण अत्र शोभते।
In the charming Divya Deśa known as Śrī Kumudapura Kṣetra (Thiruvallikeni), the Lord shines forth in the form of Pārthasārathi.
नास्त्रं युद्धे धरिष्येSहं पूर्वमेव प्रतिश्रुतः ।
तस्मान्मूर्तौ कशा नूनं चक्रस्थाने हि दृश्यते ॥ ३ ॥
நாஸ்த்ரம் யுத்³தே⁴ த⁴ரிஷ்யேஹம் பூர்வமேவ ப்ரதிஶ்ருத:।
தஸ்மாந்மூர்தௌ கஶா நூநம் சக்ரஸ்தா²நே ஹி த்³ருʼஶ்யதே ॥ 3
(भगवान्) “अहं युद्धे अस्त्रं न धरिष्ये” इति पूर्वम् एव प्रतिश्रुतः। तस्मात् मूर्तौ नूनं चक्रस्थाने कशा दृश्यते।
The Lord had previously vowed, ‘I shall not bear weapons in battle.’ Therefore, in this form of deity, a horse whip is indeed seen in the place of the discus.
श्मश्रुयुक्तं मुखं विष्णोः विरलं रूपमद्भुतम् ।
प्राप्तैर्बाणैः कुरुक्षेत्रे लाञ्छितमपि दृश्यते ॥ ४ ॥
ஶ்மஶ்ருயுக்தம் முகம்² விஷ்ணோ: விரலம் ரூபமத்³பு⁴தம்।
ப்ராப்தைர்பா³ணை: குருக்ஷேத்ரே லாஞ்சி²தமபி த்³ருʼஶ்யதே ॥ 4
विष्णोः श्मश्रुयुक्तं मुखं विरलं अद्भुतं रूपम् (अस्ति)। (तत्) कुरुक्षेत्रे प्राप्तैः बाणैः लाञ्छितम् अपि दृश्यते।
The moustached face of Lord Viṣṇu is a rare and wonderful form. It is also seen marked by the arrows that struck Him in the battle of Kurukṣetra.
रुक्मिण्या सहितः कृष्णो बलरामेण संयुतः ।
प्रद्युम्नेनानिरुद्धेन सात्यकिना च शोभते ॥ ५ ॥
ருக்மிண்யா ஸஹித: க்ருʼஷ்ணோ ப³லராமேண ஸம்யுத:।
ப்ரத்³யும்நேநாநிருத்³தே⁴ந ஸாத்யகிநா ச ஶோப⁴தே ॥5
कृष्णः रुक्मिण्या सहितः, बलरामेण, प्रद्युम्नेन, अनिरुद्धेन, सात्यकिना च संयुतः शोभते।
Lord Kṛṣṇa shines forth together with Rukmiṇī, accompanied by Balarāma, Pradyumna, Aniruddha, and Sātyaki.
यत्र योगेश्वरः कृष्णो विद्येत पार्थसारथिः।
तत्र श्रीर्विजयोभूतिर्नीतिर्भवेत् न संशयः ॥ ६
யத்ர யோகே³ஶ்வர: க்ருʼஷ்ணோ வித்³யேத பார்த²ஸாரதி:²।
தத்ர ஶ்ரீர்விஜயோபூ⁴திர்நீதிர்ப⁴வேத் ந ஸம்ஶய: ॥ 6
यत्र योगेश्वरः पार्थसारथिः कृष्ण: विद्येत, तत्र श्रीः, विजयः, भूतिः, नीतिः (च) भवेत्; न संशयः।
Where Keśava, the Lord of Yoga, Krishna, is present as Pārthasārathi, there abide prosperity, victory, glory, and righteousness—there is no doubt.
Srinivasa Sundara Raja Dasan