Categories
Sanskrit at Home

Thiruvanantapuram – Ananta Padmanabha Swamy

श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः

ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:

अनन्तपद्मनाभोSत्र  भुजङ्गशयने ध्रुवम् ।

मातालक्ष्मीसमायुक्तो दिव्यदेशे विराजते ॥ १ ॥

அநந்தபத்³மநாபோ⁴த்ர  பு⁴ஜங்க³ஶயநே த்⁴ருவம் ।

மாதாலக்ஷ்மீஸமாயுக்தோ தி³வ்யதே³ஶே விராஜதே ॥ 1 ॥

अनन्तपद्मनाभः अत्र ध्रुवं भुजङ्गशयने मातालक्ष्मीसमायुक्तः दिव्यदेशे विराजते।

Here, Lord Ananta Padmanābha certainly reclines upon the serpent couch and shines in this Divya Deśa together with Mātā Lakṣmī.

अष्टादशपुराणेषु काव्येष्वपि प्रकीर्तितम् ।
क्षेत्रमेतत्पवित्रं हि भक्तानां मोक्षदं सदा ॥ २ ॥

அஷ்டாத³ஶபுராணேஷு காவ்யேஷ்வபி ப்ரகீர்திதம் ।

க்ஷேத்ரமேதத்பவித்ரம்ஹி ப⁴க்தாநாம்மோக்ஷதம்³ஸதா³॥3   

एतत् क्षेत्रम् अष्टादशपुराणेषु काव्येषु अपि प्रकीर्तितम्। एतत् क्षेत्रं हि सदा भक्तानां मोक्षदम् (अस्ति)।

This sacred place is extolled in the eighteen Purāṇas as well as in poetic works. Indeed, this holy kṣetra always bestows liberation upon devotees.

अत्र त्रिषु कवाटेषु दृश्यते भगवान् हरिः ।
जन्मवृद्धिगतीनां हि रहस्यं दर्शयन्निव ॥ ३ ॥

அத்ர த்ரிஷு கவாடேஷு த்³ருʼஶ்யதே ப⁴க³வாந் ஹரி: ।

ஜந்மவ்ருʼத்³தி⁴க³தீநாம் ஹி ரஹஸ்யம் த³ர்ஶயந்நிவ ॥ 3

अत्र त्रिषु कवाटेषु भगवान् हरिः दृश्यते। (सः) जन्म-वृद्धि-गतीनां हि रहस्यं दर्शयन् इव (दृश्यते)।

Here, Lord Hari is seen through three doors, as though revealing the mystery of birth, growth, and the final destiny (of beings).

मध्ये तु दृश्यते द्वारे नाभिपद्मः सनातनः ।
तस्मादेव समुत्पन्नो ब्रह्मा सृष्टिविधायकः ॥ ४ ॥

மத்⁴யே து த்³ருʼஶ்யதே த்³வாரே நாபி⁴பத்³ம: ஸநாதந: ।

தஸ்மாதேவஸமுத்பந்நோ ப்³ரஹ்மாஸ்ருஷ்டிவிதா⁴யக:॥4 .

मध्ये द्वारे तु सनातनः नाभिपद्मः दृश्यते। तस्मात् एव सृष्टिविधायकः ब्रह्मा समुत्पन्नः (अभूत्)।

Through the central entrance is seen the Lords eternal lotus navel. From that very place arose Brahmā, the creator of the universe.

मुखचन्द्रः शिरोद्वारे पद्मनाभस्य दृश्यते ।
दिव्याभ्यां नयनाभ्यां स भक्तान् रक्षति सर्वदा ॥ ५ ॥

முக²சந்த்³ர: ஶிரோத்³வாரே பத்³மநாப⁴ஸ்ய த்³ருʼஶ்யதே ।

தி³வ்யாப்யாம் நயநாப்⁴யாம்ஸ ப⁴க்தாந் ரக்ஷதிஸர்வதா³॥5

शिरोद्वारे पद्मनाभस्य मुखचन्द्रः दृश्यते। सः दिव्याभ्यां नयनाभ्यां भक्तान् सर्वदा रक्षति।

Through the upper entrance, the moon-like face of Lord Padmanābha is seen. With His divine eyes, He always protects His devotees.

अधोद्वारे पदद्वन्द्वं दृश्यते परमाद्भुतम् ।
तदेव सर्वजीवानां परमा गतिरुच्यते ॥ ६

அதோ⁴த்³வாரே பத³த்வந்த்³வம் த்³ருʼஶ்யதேபரமாத்³பு⁴தம் ।

ததே³வ ஸர்வஜீவாநாம் பரமா க³திருச்யதே ॥ 6

अधोद्वारे परमाद्भुतं पदद्वन्द्वं दृश्यते। तत् एव सर्वजीवानां परमा गतिः उच्यते।

Through the lower entrance is seen the most wondrous pair of the Lord’s feet. Those very feet are said to be the supreme destination of all living beings.

तत्पादोद्भवतीर्थानि पावनानि महान्ति च ।
तत्रैव सर्वनद्यश्च दिव्याः सम्भवन्ति वै ॥ ७ ॥

தத்பாதோ³த்³ப⁴வதீர்தா²நி பாவநாநி மஹாந்தி ச ।

தத்ரைவ ஸர்வநத்³யஶ்ச தி³வ்யா: ஸம்ப⁴வந்தி வை॥ 7

तत्पादोद्भवतीर्थानि पावनानि महान्ति च (सन्ति)। तत्र एव सर्वाः दिव्याः नद्यः सम्भवन्ति वै।

The sacred tīrthas arising from His feet are holy and great. Indeed, all the divine rivers originate there itself.”

पद्मनाभ विशालाक्ष पद्मानन हरे प्रभो ।
भक्तकोटिजनानां त्वं त्राता भव जनार्दन ॥ ८ ॥

பத்³மநாப⁴ விஶாலாக்ஷ பத்³மாநந ஹரே ப்ரபோ⁴ ।

ப⁴க்தகோடிஜநாநாம் த்வம் த்ராதா ப⁴வ ஜநார்த³ந ॥ 8

हे पद्मनाभ! हे विशालाक्ष! हे पद्मानन! हे हरे! हे प्रभो! हे जनार्दन! त्वं भक्तकोटिजनानां त्राता भव।

O Padmanābha! O Wide-eyed Lord! O Lotus-faced One! O Hari! O Lord! O Janārdana! Be the protector of millions of Your devotees. Srinivasa Sundara Raja Dasan

Leave a comment