श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः
ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:
सूर्यवंशसमुद्भूतः शिबिर्नाम महीपतिः ।
पूर्वजो रामभद्रस्य क्षेत्रमेतदकारयत् ॥ १ ॥
ஸூர்யவம்ஶஸமுத்³பூ⁴த: ஶிபி³ர்நாம மஹீபதி: ।
பூர்வஜோ ராமப⁴த்³ரஸ்ய க்ஷேத்ரமேதத³காரயத் ॥ 1 ॥
सूर्यवंशसमुद्भूतः शिबिः नाम महीपतिः, रामभद्रस्य पूर्वजः सन्, एतत् क्षेत्रम् अकारयत्।
King Shibi, born in the Solar Dynasty and an ancestor of most auspicious Rāma, caused this sacred temple (or place) to be built.
श्रीरङ्गक्षेत्रतोSप्येतत् प्राचीनत्वेन विश्रुतम् ।
आदिरङ्गमिति ख्यातं भक्तलोकनिषेवितम् ॥ २ ॥
ஶ்ரீரங்க³க்ஷேத்ரதோப்யேதத் ப்ராசீநத்வேந விஶ்ருதம் ।
ஆதி³ரங்க³மிதி க்²யாதம் ப⁴க்தலோகநிஷேவிதம் ॥ 2 ॥
एतत् (क्षेत्रम्) श्रीरङ्गक्षेत्रतः अपि प्राचीनत्वेन विश्रुतम्। (इदं) “आदिरङ्गम्” इति ख्यातम्, भक्तलोकेन निषेवितम्।
This sacred place is renowned as being even more ancient than the Śrīraṅga Kṣetra. It is famous by the name ‘Ādiraṅgam’ and is frequented by multitudes of devotees.
प्राचीनतां समालक्ष्य वेदान्तदेशिको महान् ।
हंससन्देशकाव्येSस्मिन् क्षेत्रमेतदकीर्तयत् ॥ ३ ॥
ப்ராசீநதாம் ஸமாலக்ஷ்ய வேதா³ந்ததே³ஶிகோ மஹாந் ।
ஹம்ஸஸந்தே³ஶகாவ்யேஸ்மிந் க்ஷேத்ரமேதத³கீர்தயத்॥3
महान् वेदान्तदेशिकः प्राचीनतां समालक्ष्य, अस्मिन् हंससन्देशकाव्ये एतत् क्षेत्रम् अकीर्तयत्।
Acknowledging the remarkable antiquity of this temple, the Vedānta Deśika the Great, glorified it in his Haṃsa-sandeśa (Sandesha kavya composed based on Ramayana’s events)
श्वेतशैलसमायोगात् श्वेतगिरिरिति श्रुतम् ।
देशोSयं पुण्यसम्पन्नो भक्तानां मान्य एव च ॥ ४ ॥
ஶ்வேதஶைலஸமாயோகா³த் ஶ்வேதகி³ரிரிதி ஶ்ருதம் ।
தே³ஶோயம் புண்யஸம்பந்நோ ப⁴க்தாநாம் மாந்ய ஏவ ச॥4
श्वेतशैलसमायोगात् अयं देशः “श्वेतगिरिः” इति श्रुतः। अयं देशः पुण्यसम्पन्नः, भक्तानां मान्यः एव च।
Because of the presence of white rocks, this place is known as ‘Śvetagiri’ (White Hill / Thiru Villarai). This sacred region is endowed with holiness and is indeed revered by devotees.
पुण्डरीकमहर्षेस्तु तपसा परितोषितः ।
पुण्डरीकाक्षरूपेण भगवान् प्रादुरास ह ॥ ५ ॥
புண்ட³ரீகமஹர்ஷேஸ்து தபஸா பரிதோஷித: ।
புண்ட³ரீகாக்ஷரூபேண ப⁴க³வாந் ப்ராது³ராஸ ஹ ॥ 5 ॥
भगवान् पुण्डरीकमहर्षेः तपसा परितोषितः (सन्), पुण्डरीकाक्षरूपेण प्रादुरास ह।
The Lord, being pleased by the penance of the great sage Puṇḍarīka, manifested Himself in the form of Puṇḍarīkākṣa (Lotus Eyed Lord – Thamarai Kannan).
पुण्डरीकाक्षरूपाय श्वेतशैलस्थिताय च ।
देवीपङ्कजहस्तायै जगन्मात्रे नमो नमः ॥ ६ ॥
புண்ட³ரீகாக்ஷரூபாய ஶ்வேதஶைலஸ்தி²தாய ச ।
தே³வீபங்கஜஹஸ்தாயை ஜக³ந்மாத்ரே நமோ நம: ॥6
पुण्डरीकाक्षरूपाय, श्वेतशैलस्थिताय च नमः। देवीपङ्कजहस्तायै, जगन्मात्रे नमो नमः।
Salutations to the Lord in the form of Puṇḍarīkākṣa (Sriman Narayana) , who abides on Śvetaśaila. Repeated salutations to the Goddess Paṅkajahastā (Lakshmee holding lotus in her hands), the Mother of the Universe.
Srinivasa Sundara Raja Dasan