सिन्धोरुन्नीय भूदेवीं सव्याङ्के हि न्यवेशयत् ।
वराहभगवान्तस्मात् सा श्रीसव्यपुरी स्मृता ॥ १ ॥
ஸிந்தோ⁴ருந்நீய பூதே³வீம் ஸவ்யாங்கேஹி ந்யவேஶயத்।
வராஹப⁴க³வாந்தஸ்மாத் ஸா ஶ்ரீஸவ்யபுரீ ஸ்ம்ருʼதா॥ 1
वराहभगवान् सिन्धोः भूदेवीं उन्नीय, सव्याङ्के न्यवेशयत्। तस्मात् सा श्रीसव्यपुरी स्मृता।
Lord Varāha, having lifted up Bhūdevī from the ocean, placed her upon His left lap. Therefore, that place is known as Śrī Savyapurī. (In Tamil – Thiru Ida Enthai)
कलवो नाम विप्रर्षिः वराहोपासकोSभवत् ।
तस्य कन्याशतत्रयं षष्ट्यधिकमभूत्तदा ॥ २ ॥
கலவோ நாம விப்ரர்ஷி: வராஹோபாஸகோப⁴வத் ।
தஸ்ய கந்யாஶதத்ரயம் ஷஷ்ட்யதி⁴கமபூ⁴த்ததா³ ॥ 2
कलवः नाम विप्रर्षिः वराहोपासकः अभवत्। तस्य तदा षष्ट्यधिकं कन्याशतत्रयम् अभूत्।
There was a brahmana sage named Kalava, who was a devotee of Lord Varāha. At that time he had three hundred and sixty daughters.
तासां विवाहकामार्थं वराहं प्रार्थयन्मुनिः ।
कृपां कुरुष्व मे नाथ सर्वाः कन्याः गृहाण त्वम् ॥ ३
தாஸாம் விவாஹகாமார்தம்² வராஹம் ப்ரார்த²யந்முநி:।
க்ருʼபாம் குருஷ்வ மே நாத² ஸர்வா: கந்யா: க்³ருʼஹாண த்வம்॥ 2
मुनिः तासां विवाहकामार्थं वराहं प्रार्थयन् (उवाच)— “हे नाथ! मे कृपां कुरुष्व। त्वं सर्वाः कन्याः गृहाण।
Desiring the marriage of his daughters, the sage prayed to Lord Varāha: ‘O Lord! Show me Your grace and accept all my daughters (in marriage).
स ब्रह्मचारिवेषेण भगवान् समुपागम्य ।
प्रतिदिनं किलैकैकां कन्यां तां परिणीतवान् ॥ ४
ஸ ப்³ரஹ்மசாரிவேஷேண ப⁴க³வாந் ஸமுபாக³ம்ய ।
ப்ரதிதி³நம் கிலைகைகாம் கந்யாம் தாம் பரிணீதவாந் ॥ 4
स: भगवान् ब्रह्मचारिवेषेण समुपागम्य प्रतिदिनं किल एकैकां तां कन्यां परिणीतवान्।
The Lord, having come in the guise of a brahmacārin, married one maiden each day.
एवं संवत्सरं यावत् सर्वाः कन्याः यथाक्रमम् ।
स पाणीन् गृहीत्वाSभूत् नित्यविवाहमूर्तिमान् ॥ ५ ॥
ஏவம் ஸம்வத்ஸரம் யாவத் ஸர்வா: கந்யா: யதா²க்ரமம் ।
ஸ பாணீந் க்³ருʼஹீத்வாபூ⁴த் நித்யவிவாஹமூர்திமாந்॥5
सः एवं संवत्सरं यावत् यथाक्रमं सर्वाः कन्याः (तासां) पाणीन् गृहीत्वा नित्यविवाहमूर्तिमान् अभूत्।
Thus, over the course of an entire year, having accepted the hands of all the maidens one after another, He became renowned as the Lord who marries every day (Nityavivāha Mūrti/ Nitya Kalayana Perumal in Tamil).
लक्ष्मीवराहरूपः स दिव्यदेशे विराजते ।
भगवान् सह भूदेव्या तं वराहं नमाम्यहम् ॥ ६ ॥
லக்ஷ்மீவராஹரூப: ஸ தி³வ்யதே³ஶே விராஜதே ।
ப⁴க³வாந் ஸஹ பூ⁴தே³வ்யா தம்வராஹம் நமாம்யஹம்॥6
सः लक्ष्मीवराहरूपः भगवान् भूदेव्या सह दिव्यदेशे विराजते। अहं तं वराहं नमामि।
That Lord, in the form of Lakṣmī-Varāha, shines in this Divya Deśa together with Bhūdevī. I bow to that Lord Varāha.
Srinivasa Sundara Raja Dasan