श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः
ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:
महाबलिर्नृपः पूर्वं क्षेत्रमेतदपालयत् ।
त्रिविक्रमप्रसादेन महाबलिपुरं श्रुतम् ॥ १
மஹாப³லிர்ந்ருʼபஃ பூர்வம் க்ஷேத்ரமேதத³பாலயத் ।
த்ரிவிக்ரமப்ரஸாதே³ந மஹாப³லிபுரம் ஶ்ருதம் ॥ 1
पूर्वं महाबलिः नृपः एतत् क्षेत्रम् अपालयत्। त्रिविक्रमप्रसादेन (इदं क्षेत्रं) महाबलिपुरम् श्रुतम्।
Formerly King Mahābali ruled this sacred place. By the grace of Trivikrama, it became known as Mahābalipuram.
पुण्डरीकमुनिः क्षेत्रे पुष्पोद्यानमकारयत् ।
तत्रोत्पन्नानि पद्मानि विष्णवे समकल्पयत् ॥ २
புண்ட³ரீகமுநிஃ க்ஷேத்ரே புஷ்போத்³யாநமகாரயத் ।
தத்ரோத்பந்நாநி பத்³மாநி விஷ்ணவே ஸமகல்பயத் ॥ 2
पुण्डरीकमुनिः क्षेत्रे पुष्पोद्यानम् अकारयत्। तत्र उत्पन्नानि पद्मानि विष्णवे समकल्पयत्।
Sage Puṇḍarīka established a flower garden in that sacred place. The lotuses that blossomed there he dedicated to Viṣṇu.
पद्मानि तानि संगृह्य पेटिकायां विधाय हि ।
क्षीराब्धिं प्रति गन्तुं स प्रययौ भक्तितत्परः ॥ ३
பத்³மாநி தாநி ஸம்க்³ருʼஹ்ய பேடிகாயாம் விதா⁴ய ஹி ।
க்ஷீராப்³திம்⁴ ப்ரதி க³ந்தும் ஸ ப்ரயயௌ ப⁴க்திதத்பரஃ॥3
सः भक्तितत्परः तानि पद्मानि संगृह्य, पेटिकायां निधाय हि क्षीराब्धिं प्रति गन्तुं प्रययौ।
Gathering those lotuses and placing them reverentially in a basket, that sage, wholly devoted in bhakti, set out towards the Milk Ocean.
समुद्रे गच्छतः तस्य गम्भीरसलिले तदा ।
कण्ठमात्रं जलं प्राप्य मुनिर्गन्तुं शशाक न ॥ ४
ஸமுத்³ரே க³ச்ச²தஃ தஸ்ய க³ம்பீ⁴ரஸலிலே ததா³ ।
கண்ட²மாத்ரம் ஜலம் ப்ராப்ய முநிர்க³ந்தும் ஶஶாக ந ॥ 4
तस्य समुद्रे गच्छतः, तदा गम्भीरसलिले कण्ठमात्रं जलं प्राप्य, मुनिः गन्तुं न शशाक।
As he proceeded into the sea, he reached deep waters rising up to his neck; the sage was then unable to proceed further.
तस्मिन्काले जरद्रूपी भगवान् समुपागतः ।
मुनिमुवाच मे देहि बुभुक्षिताय भोजनं ॥ ५
शोषयिष्याम्यहं तोयं येन गन्तासि सागरम् ।
தஸ்மிந்காலே ஜரத்³ரூபீ ப⁴க³வாந் ஸமுபாக³தஃ ।
முநிமுவாச மே தே³ஹி பு³பு⁴க்ஷிதாய போ⁴ஜநம் ॥ 5
ஶோஷயிஷ்யாம்யஹம் தோயம் யேந க³ந்தாஸி ஸாக³ரம் ।
तस्मिन् काले जरद्रूपी भगवान् समुपागतः मुनिम् उवाच । मे बुभुक्षिताय भोजनं देहि । अहं तोयं शोषयिष्यामि येन सागरम् गन्तासि ।
At that time the Lord, assuming the form of an old man, approached. He said to the sage, ‘Give me some food, for I am hungry. I shall dry up this water, so that you may proceed to the ocean.
श्रुत्वा तद्वचनं विप्रः समुपादाय भोजनम् ॥ ६
प्रत्यागत्य महर्षिस्तु वृद्धं तं न ददर्श हि ।
नारायणं शयानं तं वीक्ष्य स विस्मितोSभवत् ॥ ७
ஶ்ருத்வா தத்³வசநம் விப்ரஃ ஸமுபாதா³ய போ⁴ஜநம் ॥6
ப்ரத்யாக³த்ய மஹர்ஷிஸ்து வ்ருʼத்³தம்⁴தம் நத³த³ர்ஶ ஹி।
நாராயணம் ஶயாநம்தம் வீக்ஷ்ய ஸ விஸ்மிதோSப⁴வத்॥7
विप्रः तद्वचनं श्रुत्वा भोजनं समुपादाय, महर्षिः प्रत्यागत्य तं वृद्धं न ददर्श हि। तं शयानं नारायणं वीक्ष्य सः विस्मितः अभवत्।
Hearing those words, the sage procured food. But when the great sage returned, he did not see that old man. Beholding Nārāyaṇa reclining there, he became astonished.”
स्वोद्याने सम्भृतैः पद्मैर्भूषितं कमलेक्षणम् ।
विष्णुं स्थलशयानं तं ददर्श प्राङ्मुखं मुनिः ॥ ८
ஸ்வோத்³யாநே ஸம்ப்⁴ருʼதைஃ பத்³மைர்பூ⁴ஷிதம் கமலேக்ஷணம் ।
விஷ்ணும் ஸ்த²லஶயாநம்தம் த³த³ர்ஶ ப்ராங்முகம்² முநிஃ॥ 8
मुनिः स्वोद्याने सम्भृतैः पद्मैः भूषितं, कमलेक्षणं, प्राङ्मुखं, स्थलशयानं तं विष्णुं ददर्श।
The sage beheld that lotus-eyed Viṣṇu, adorned with lotuses gathered from his own garden, reclining upon the ground and facing the east.
प्राप्त्वा स्वाभीष्टसिद्धिं स हृष्टोऽभवत् महामुनिः ।
तत्रैव भगवान् विष्णुः तस्मै हि कृतवान् कृपाम् ॥ ९
ப்ராப்த்வா ஸ்வாபீ⁴ஷ்டஸித்³திம்⁴ ஸ ஹ்ருʼஷ்டோऽப⁴வத் மஹாமுநிஃ ।
தத்ரைவ ப⁴க³வாந் விஷ்ணுஃ தஸ்மை ஹி க்ருʼதவாந் க்ருʼபாம் ॥ 9
सः महामुनिः स्वाभीष्टसिद्धिं प्राप्त्वा हृष्टः अभवत्। भगवान् विष्णुः तत्र एव तस्मै कृपां कृतवान्।
Having attained the fulfilment of his cherished desire, the great sage became delighted. There itself Lord Viṣṇu bestowed His grace upon him.
स्थलशयनदेवाय कमलस्रज्धृताय च ।
नीलदेव्यै जगन्मात्रे तस्य पत्न्यै नमो नमः ॥ १०
ஸ்த²லஶயநதே³வாய கமலஸ்ரஜ்த்⁴ருʼதாய ச ।
நீலதே³வ்யை ஜக³ந்மாத்ரே தஸ்ய பத்ந்யை நமோநமஃ॥10
स्थलशयनदेवाय, कमलस्रक्-धृताय च नमः। नीलदेव्यै, जगन्मात्रे, तस्य पत्न्यै नमो नमः।
Salutations to the Lord Sthalaśayana, who wears a garland of lotuses. Repeated salutations to Nīlādevī, the Mother of the Universe and His consort.
Srinivasa Sundara Raja Dasan