Categories
Sanskrit at Home

Thiru Neermalai

Thiru Neermalai

श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः

ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:

कलिध्वंसमुनिः पूर्वं क्षेत्रमेतदुपागतः ।
तोयैः परिवृतं शैलं दृष्ट्वा खिन्नोऽभवत्तदा ॥ १

दुर्गमत्वान्न गन्तुं स शक्तो हि मन्दिरं तदा ।
चिरं प्रतीक्षमाणो हि मासान् षड् निवसन् किल ॥ २

अपगतेषु तोयेषु पश्चाद् विष्णुं ददर्श सः ।
कृत्वा दर्शनमिष्टं तु स्तुत्वा देवं मुदं ययौ ॥ ३

கலித்⁴வஂஸமுநிஃ பூர்வம் க்ஷேத்ரமேதது³பாக³தஃ ।

தோயைஃ பரிவ்ருʼதம் ஶைலம் த்³ருʼஷ்ட்வா கி²ந்நோऽப⁴வத்ததா³ ॥ 1

து³ர்க³மத்வாந்ந க³ந்தும் ஸ ஶக்தோ ஹி மந்தி³ரம் ததா³ ।

சிரம் ப்ரதீக்ஷமாணோ ஹி மாஸாந் ஷட்³ நிவஸந் கில॥ 2 

அபக³தேஷு தோயேஷு பஶ்சாத்³விஷ்ணும் த³த³ர்ஶஸஃ।

க்ருʼத்வா த³ர்ஶநமிஷ்டம் து ஸ்துத்வா தே³வம் முதம்³ யயௌ ॥ 3

कलिध्वंसमुनिः पूर्वम् एतत् क्षेत्रम् उपागतः। तदा तोयैः परिवृतं शैलं दृष्ट्वा खिन्नः अभवत्। दुर्गमत्वात् तदा मन्दिरं गन्तुं न शक्तः (अभवत्)। सः चिरं प्रतीक्षमाणः षट् मासान् निवसन् किल, पश्चात् तोयेषु अपगतेषु विष्णुं ददर्श। इष्टं दर्शनं कृत्वा देवं स्तुत्वा मुदं ययौ।

Formerly, the sage Kalidhvaṁsa (Tirumaṅgai Āḻvār) came to this sacred place. Seeing the hill surrounded by waters, he became distressed.

Since the temple was inaccessible, he was unable to reach it. Waiting patiently, he is said to have stayed there for six months.

After the waters had receded, he beheld Viṣṇu. Having obtained the desired darśana and praised the Lord, he departed joyfully.”

मुनेर्भक्त्या प्रसन्नोऽसौ भगवान् विष्णुरव्ययः ।

दर्शयामास तस्मै स चतुर्धा स्वं वपुर्हरिः ॥ ४

तोयवर्णः स्थितो रूपे नरसिंहः समासितः ।

शयानो रङ्गनाथश्च त्रिविक्रमश्चरन्पुनः ॥ ५

முநேர்ப⁴க்த்யா ப்ரஸந்நோஸௌ ப⁴க³வாந் விஷ்ணுரவ்யயஃ ।

த³ர்ஶயாமாஸ தஸ்மை ஸ சதுர்தா⁴ ஸ்வம் வபுர்ஹரிஃ॥4

தோயவர்ணஃ ஸ்தி²தோ ரூபே நரஸிம்ஹஃ ஸமாஸிதஃ ।

ஶயாநோ ரங்க³நாத²ஶ்ச த்ரிவிக்ரமஶ்சரந்புநஃ ॥ 5

असौ अव्ययः भगवान् विष्णुः मुनेः भक्त्या प्रसन्नः (सन्) तस्मै हरिः स्वं वपुः चतुर्धा दर्शयामास। रूपे तोयवर्णः स्थितः , नरसिंहः समासित:, रङ्गनाथः शयानः,  पुनः त्रिविक्रमः चरन् (दर्शयामास)  ।

Pleased by the sage’s devotion, the imperishable Lord Viṣṇu revealed Himself to him in four forms: as the water-hued Lord (Neer vanna Peruma) standing upright, as Narasiṃha comfortably seated, as Raṅganātha reclining, and again as Trivikrama walking.

स्वयंव्यक्ता तु तोयाद्रौ दिव्यमूर्तिर्हरेर्हि सा ।
भगवान् तोयवर्णः स क्षेत्रे तत्र विराजते ॥ ६

ஸ்வயம்வ்யக்தா து தோயாத்³ரௌ தி³வ்யமூர்திர்ஹரேர்ஹி ஸா ।

ப⁴க³வாந் தோயவர்ணஃ ஸ க்ஷேத்ரே தத்ர விராஜதே ॥ 6

सा हरेः दिव्यमूर्तिः तोयाद्रौ तु स्वयंव्यक्ता, सः भगवान् तोयवर्णः क्षेत्रे तत्र विराजते ।

On Toyādri (Thiru Neermalai) stands a self-manifest divine form of Hari,  that dark-hued Lord (Neer Vanna Perumal) shines resplendently in that sacred place.

(One of the 8 sacred places where Bhagavan manifested himself as Arcamurti, others are Sri Rangam, Thirupadhi, Salagrama, Naimisharanyam, Srimushnam, Pushkar and Badrinath)   

Srinivasa Sundara Raja Dasan

Leave a comment