श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः
ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:
मेधावी नाम विप्रः स पुरा विष्णुं समाश्रितः ।
महालक्ष्मीं सुतामाप्तुं तपश्चकार सादरम् ॥ १
மேதா⁴வீ நாம விப்ரஃ ஸ புரா விஷ்ணும் ஸமாஶ்ரிதஃ ।
மஹாலக்ஷ்மீம் ஸுதாமாப்தும் தபஶ்சகார ஸாத³ரம் ॥ 1
पुरा सः मेधावी नाम विप्रः विष्णुं समाश्रितः महालक्ष्मीं सुतां आप्तुं सादरम् तप: चकार ।
Formerly, a brāhmaṇa named Medhāvī, having taken refuge in Viṣṇu, performed austerities with devotion in order to obtain Mahālakṣmī as his daughter.
स्थले वञ्जुलवल्ल्याः स बालिकां सुन्दरीं तदा ।
प्राप्य वञ्जुलवल्लीति नाम्नाऽह्वयन्मुनिर्मुदा ॥ २
ஸ்த²லே வஞ்ஜுலவல்ல்யாஃ ஸ பா³லிகாஂ ஸுந்த³ரீஂ ததா³ ।
ப்ராப்ய வஞ்ஜுலவல்லீதி நாம்நாऽஹ்வயந்முநிர்முதா³ ॥ 2
तदा सः मुनिः वञ्जुलवल्ल्याः स्थले बालिकां सुन्दरीं प्राप्य वञ्जुलवल्ली इति नाम्ना मुदा आह्वयत्।
Having found that beautiful girl near the Vañjula creeper, the sage joyfully named her Vañjulavallī (meaning beautiful creeper).
तस्या हि यौवने प्राप्ते विभज्यात्मानमात्मना ।
सङ्कर्षणोSनिरुद्धश्च प्रद्युम्नः पुरुषोत्तमः ॥ ३
वासुदेवश्च रूपाणि धृत्वा हि भगवान् तदा ।
जगामातिथिरूपेण स तापसमुनेः कुटीम् ॥ ४
தஸ்யா ஹி யௌவநே ப்ராப்தே விப⁴ஜ்யாத்மாநமாத்மநா ।
ஸங்கர்ஷணோநிருத்³த⁴ஶ்ச ப்ரத்³யும்நஃ புருஷோத்தமஃ ॥ 3
வாஸுதே³வஶ்ச ரூபாணி த்⁴ருʼத்வா ஹி ப⁴க³வாந் ததா³ ।
ஜகா³மாதிதி²ரூபேண ஸ தாபஸமுநேஃ குடீம் ॥ 4
तस्या: यौवने प्राप्ते हि तदा सः भगवान् विभज्य आत्मानं आत्मना सङ्कर्षणः अनिरुद्धः च प्रद्युम्नः पुरुषोत्तमः वासुदेवः च रूपाणि धृत्वा हि अतिथिरूपेण तापसमुनेः कुटीम् जगाम।
When she had attained youth, the Lord divided Himself into five forms—Saṅkarṣaṇa, Aniruddha, Pradyumna, Puruṣottama, and Vāsudeva—and, assuming those forms, went as a guest to the ascetic sage’s hut.
सहसा वासुदेवो हि ददतीमुदकं तदा।
गृहीत्वा मुनिकन्यायाः करमन्तर्दधे हरिः ॥ ५
ஸஹஸா வாஸுதே³வோ ஹி த³த³தீமுத³கம் ததா³।
க்³ருʼஹீத்வா முநிகந்யாயாஃ கரமந்தர்த³தே⁴ ஹரிஃ ॥
वासुदेवः हि सहसा तदा उदकं ददतीं मुनिकन्यायाः करं गृहीत्वा, हरिः अन्तर्दधे।
Suddenly Vāsudeva seized the hand of the sage’s daughter while she was giving water, and Hari disappeared.
ततः स्तब्धमुनेः पार्श्वे प्रादुर्भूय हरिस्तदा ।
स्वरूपेण स कन्यां तां वासुदेवो ययाच हि ॥ ६
ததஃ ஸ்தப்³த⁴முநேஃ பார்ஶ்வே ப்ராது³ர்பூ⁴ய ஹரிஸ்ததா³ ।
ஸ்வரூபேண ஸ கந்யாம் தாம் வாஸுதே³வோ யயாச ஹி ॥6
ततः हरिः स: तदा स्तब्धमुनेः पार्श्वे स्वरूपेण प्रादुर्भूय तां कन्यां ययाच हि ।
Then Hari appeared in His own form beside the stunned sage, and Vāsudeva asked for that maiden’s hand.
हृष्टमनाः स मेधावी भगवन्तमयाचत ।
पुत्र्यै मे प्रथमस्थानं भवता दीयतां सदा ॥ ७
ஹ்ருʼஷ்டமநாஃ ஸ மேதா⁴வீ ப⁴க³வந்தமயாசத ।
புத்ர்யை மே ப்ரத²மஸ்தா²நம் ப⁴வதா தீ³யதாம் ஸதா³ ॥ 7
हृष्टमनाः स: मेधावी भगवन्तम् अयाचत । मे पुत्र्यै प्रथमस्थानं भवता सदा दीयतां ।
The delighted Medhāvī prayed to the Lord: ‘May first place always be granted by You to my daughter.
मुनेरिच्छामनुश्रुत्य देवीमन्दिरसंज्ञिते ।
विष्णोरग्रे स्थिता लक्ष्मीः सदात्र सा विराजते ॥ ८
முநேரிச்சா²மநுஶ்ருத்ய தே³வீமந்தி³ரஸம்ஜ்ஞிதே ।
விஷ்ணோரக்³ரே ஸ்தி²தா லக்ஷ்மீஃ ஸதா³த்ர ஸா விராஜதே॥8
मुनेः इच्छाम् अनुश्रुत्य, देवीमन्दिरसंज्ञिते (क्षेत्रे), सा लक्ष्मीः विष्णोः अग्रे स्थिता सदा अत्र विराजते।
In the sacred place known as Devīmandira (Nachiyar Kovil in Tamil), in accordance with the sage’s wish, Lakṣmī stands before Viṣṇu and ever shines there in glory.
विशालपक्षयुक्तो हि तद्विष्णोर्वाहनं महत् ।
गरुडभगवन्मूर्तिः विशेषेण स पूज्यते ॥ ९
விஶாலபக்ஷயுக்தோ ஹி தத்³விஷ்ணோர்வாஹநம் மஹத் ।
க³ருட³ப⁴க³வந்மூர்திஃ விஶேஷேண ஸ பூஜ்யதே ॥ 9
सः विशालपक्षयुक्तः, विष्णोः तत् महत् वाहनम्, गरुडभगवन्मूर्तिः (च) विशेषेण पूज्यते हि ।
Endowed with mighty wings, being the great vehicle of Viṣṇu, the divine form of Garuḍa is specially worshipped.
देवीवञ्जुलवल्ल्यै च विष्णुपत्न्यै श्रियै नमः ।
विष्णोरग्रस्थितायै च हरये च नमो नमः ॥ १०
தே³வீவஞ்ஜுலவல்ல்யை ச விஷ்ணுபத்ந்யை ஶ்ரியை நமஃ ।
விஷ்ணோரக்³ரஸ்தி²தாயை ச ஹரயே ச நமோ நமஃ ॥ 10
देवीवञ्जुलवल्ल्यै च, विष्णुपत्न्यै श्रियै च नमः। विष्णोः अग्रस्थितायै च, हरये च नमो नमः।
Salutations to the goddess Vañjulavallī, to Śrī, the consort of Viṣṇu. Repeated salutations again to Nachiyar Lakshmi who stands before Viṣṇu, and to Hari.
- Srinivasa Sundara Raja Dasan