श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः
ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:
नीलमेघमहाभक्तो रङ्गभट्टोऽर्चकोऽभवत् ।
ददाति स्म स्वभार्यायै मालां मूर्तेर्धृतां ध्रुवम् ॥ १
நீலமேக⁴மஹாப⁴க்தோ ரங்க³ப⁴ட்டோர்சகோப⁴வத் ।
த³தா³தி ஸ்ம ஸ்வபா⁴ர்யாயை மாலாம் மூர்தேர்த்⁴ருʼதாம் த்⁴ருவம் ॥ 1
नीलमेघमहाभक्तः रङ्गभट्टः अर्चकः अभवत्। सः मूर्तेः धृतां मालां स्वभार्यायै ध्रुवं ददाति स्म।
Ranga Bhaṭṭa, a great devotee of Nīlamegha, served as the temple priest. He would regularly give to his wife the garland worn by the deity.
दर्शनार्थं कदा राजा गतवान् मन्दिरं तदा ।
रङ्गभट्टेन भार्यायै पूर्वमेव स्रगर्पिता ॥ २
த³ர்ஶநார்தம்² கதா³ ராஜா க³தவாந் மந்தி³ரம் ததா³ ।
ரங்க³ப⁴ட்டேந பா⁴ர்யாயை பூர்வமேவ ஸ்ரக³ர்பிதா ॥ 2
कदा राजा दर्शनार्थं मन्दिरं गतवान्। तदा स्रक् रङ्गभट्टेन भार्यायै पूर्वमेव अर्पिता (आसीत्).
Once, when the king came to the temple for worship, the garland had already been given by Ranga Bhaṭṭa to his wife.
मालामानीय भट्टः स ददौ राज्ञे प्रियाधृताम् ।
केशं स्रजि नृपो दृष्ट्वा पप्रच्छ तस्य कारणम् ॥ ३
மாலாமாநீய ப⁴ட்டஃ ஸ த³தௌ³ ராஜ்ஞே ப்ரியாத்⁴ருʼதாம் ।
கேஶம் ஸ்ரஜி ந்ருʼபோ த்³ருʼஷ்ட்வா பப்ரச்ச² தஸ்ய காரணம்॥3
स भट्टः प्रियाधृतां मालाम् आनीय राज्ञे ददौ। नृपः स्रजि केशं दृष्ट्वा तस्य कारणं पप्रच्छ।
The priest brought the garland worn by his beloved wife and gave it to the king. Seeing a hair in the garland, the king asked the reason for it.
भयाकुलस्तदा भट्टो नृपमुवाच सत्वरम् ।
केशोSयं नीलमेघस्य वेणी चास्यास्ति निश्चितम् ॥ ४
ப⁴யாகுலஸ்ததா³ ப⁴ட்டோ ந்ருʼபமுவாச ஸத்வரம் ।
கேஶோயம் நீலமேக⁴ஸ்ய வேணீ சாஸ்யாஸ்தி நிஶ்சிதம் ॥ 4
तदा भट्ट: भयाकुल: नृपं सत्वरम् उवाच । अयं केश: नीलमेघस्य । वेणी च अस्य अस्ति निश्चितम् ।
Then the frightened Bhaṭṭa quickly said to the king: ‘This hair belongs to Lord Nīlamegha; indeed, He possesses a braid.’
राजाSश्रद्दधानो हि रङ्गभट्टं शशास च ।
तन्नीलमेघमूर्तिं त्वं दर्शय भट्ट मामिति ॥ ५
ராஜாஶ்ரத்³த³தா⁴நோ ஹி ரங்க³ப⁴ட்டம் ஶஶாஸ ச ।
தந்நீலமேக⁴மூர்திம் த்வம் த³ர்ஶய ப⁴ட்ட மாமிதி ॥ 5
राजा न श्रद्दधानः हि रङ्गभट्टं शशास च — “भट्ट! त्वं नीलमेघमूर्तिं मां दर्शय” इति।
The king, not believing him, commanded Ranga Bhaṭṭa, saying: ‘O Bhaṭṭa, show me that idol of Nīlamegha.’
ईक्षमाणाय राज्ञे स दर्शयामास केशवः ।
दीर्घां स्वकीयवेणीं तामद्भुतां स्वयमेव हि ॥ ६
ஈக்ஷமாணாய ராஜ்ஞே ஸ த³ர்ஶயாமாஸ கேஶவஃ ।
தீ³ர்காம்⁴ ஸ்வகீயவேணீம் தாமத்³பு⁴தாம் ஸ்வயமேவ ஹி ॥ 6
स: केशवः ईक्षमाणाय राज्ञे ताम् अद्भुतां दीर्घां स्वकीयवेणीं स्वयमेव दर्शयामास हि ।
To the king who was observing, Keśava (Neelamegha/ Krishna/ Lord with beautiful hair) himself showed that wondrous long braid of His own, natural hair.
ततः प्रभृति नाम्ना स केशराजेति विश्रुतः ।
कृष्णसाह्वयदेशे हि नीलमेघो विराजते ॥ ७
ததஃ ப்ரப்⁴ருʼதி நாம்நா ஸ கேஶராஜேதி விஶ்ருதஃ ।
க்ருʼஷ்ணஸாஹ்வயதே³ஶே ஹி நீலமேகோ⁴ விராஜதே ॥ 7
ततः प्रभृति सः केशराज इति नाम्ना विश्रुतः। नीलमेघः कृष्णसाह्वयदेशे हि विराजते।
From that time onward, He became renowned by the name Keśarāja (Sowri Rajan in Tamil). Lord Nīlamegha shines in the city named after Kṛiṣhṇa (Thiru Kannapuram).
कृष्णाय नीलमेघाय केशराजाय विष्णवे । (सौरिराजाय)
भक्तप्रियाय तस्मै च केशवाय नमो नमः ॥ ८
க்ருʼஷ்ணாய நீலமேகா⁴ய ஸௌரிராஜாய விஷ்ணவே। (கேஶராஜாய)
ப⁴க்தப்ரியாய தஸ்மை ச கேஶவாய நமோ நமஃ ॥ 8
कृष्णाय, नीलमेघाय, केशराजाय, विष्णवे, भक्तप्रियाय, केशवाय तस्मै नमो नमः।
Repeated salutations to Him who is Kṛṣṇa, Nīlamegha, Keśarāja, Viṣṇu, beloved of His devotees, and Keśava.