Categories
Sanskrit at Home

शार्ङ्गपाणेः स्थलपुराणम्

श्रीमते रामानुजाय नमः – श्रीमते निगमान्तमहादेशिकाय नमः

ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே நிகமாந்தமஹாதேஶிகாய நம:

लक्ष्मीनिवासभूतं तत् तिरस्कृत्य भृगो मुनिः ।
दुःखितो परिहारार्थं तीव्रं तपश्चकार हि ॥ १

லக்ஷ்மீநிவாஸபூ⁴தம் தத் திரஸ்க்ருʼத்ய ப்⁴ருʼகோ³ முநிஃ ।

துஃ³கி²தோ பரிஹாரார்தம்² தீவ்ரம் தபஶ்சகார ஹி ॥ 1

भृगुः मुनिः लक्ष्मीनिवासभूतं तत् (विष्णोः वक्षःस्थलम्) तिरस्कृत्य दुःखितः सन् परिहारार्थं तीव्रं तपः चकार।

Having offended that (chest of Vishnu) which was the abode of Lakṣmī, the sage Bhṛgu became sorrowful and performed severe austerities for forgiveness (from divine couple).

हेममहर्षिरूपेण प्राप्य जन्म पुनर्मुनिः ।
लेभे कोमलवल्लीं स लक्ष्मीरूपां सुतां किल ॥ २

ஹேமமஹர்ஷிரூபேண ப்ராப்ய ஜந்ம புநர்முநிஃ ।

லேபே⁴ கோமலவல்லீம் ஸ லக்ஷ்மீரூபாம் ஸுதாம் கில ॥ 2

स मुनिः हेममहर्षिरूपेण पुनर्जन्म प्राप्य लक्ष्मीरूपां कोमलवल्लीं सुतां लेभे किल।

That sage, having taken rebirth as Hema Maharṣi, obtained as his daughter Komalavallī (soft creeper), who was Lakṣmī herself.

स्वकृतात् किल​ दम्पत्योः वियोगकारणान्मुनिः ।

विष्णवे हि सुतां दातुं तपश्चकार सादरम् ​॥ ३

ஸ்வக்ருʼதாத் கில த³ம்பத்யோஃ வியோக³காரணாந்முநிஃ ।

விஷ்ணவே ஹி ஸுதாம் தா³தும் தபஶ்சகார ஸாத³ரம் ॥ 3

मुनिः स्वकृतात् दम्पत्योः वियोगकारणात् किल विष्णवे सुतां दातुं सादरं तपः चकार।

The sage, because he himself earlier had been the cause of the separation of the divine couple indeed, respectfully performed austerities in order to give his daughter to Viṣṇu (to unite them).

ततोSवतीर्य विष्णुः स महता रथेन तदा ।
अनुगृह्य मुनेरिच्छां कन्यां लक्ष्मीं निनाय हि ॥ ४

ததோSவதீர்ய விஷ்ணுஃ ஸ மஹதா ரதே²ந ததா³ ।

அநுக்³ருʼஹ்ய முநேரிச்சாம்² கந்யாம் லக்ஷ்மீம் நிநாய ஹி ॥ 4

ततः स विष्णुः तदा महता रथेन अवतीर्य मुनेः इच्छाम् अनुगृह्य कन्यां लक्ष्मीं निनाय हि।

Then Lord Viṣṇu descended in a great chariot and, fulfilling the sage’s wish, took Lakṣmī as his bride.

शार्ङ्गधरो निवासस्य लक्ष्म्या हि रक्षणाय सः ।
शार्ङ्गपाणिरिति ख्यातः कुम्भकोणे विराजते ॥ ५

ஶார்ங்க³த⁴ரோ நிவாஸஸ்ய லக்ஷ்ம்யா ஹி ரக்ஷணாய ஸஃ ।

ஶார்ங்க³பாணிரிதி க்²யாதஃ கும்ப⁴கோணே விராஜதே ॥ 5

सः लक्ष्म्याः निवासस्य रक्षणाय शार्ङ्गधरः हि शार्ङ्गपाणिः इति ख्यातः कुम्भकोणे विराजते।

Bearing the Śārṅga bow for the protection of Lakṣmī’s abode, he shines in the Kumbhakonam Divya Deśa, renowned as Śārṅgapāṇi.

दर्शनेन हरेस्तस्य तृप्तिर्नैव प्रजायते ।
अपर्याप्तामृतो नाम्ना दिव्यदेशे स विश्रुतः ॥ ६

த³ர்ஶநேந ஹரேஸ்தஸ்ய த்ருʼப்திர்நைவ ப்ரஜாயதே ।

அபர்யாப்தாம்ருʼதோ நாம்நா தி³வ்யதே³ஶே ஸ விஶ்ருதஃ ॥ 6

तस्य हरेः दर्शनेन तृप्तिः न एव प्रजायते । सः दिव्यदेशे अपर्याप्तामृतः नाम्ना विश्रुतः।

Satisfaction is never attained by beholding that Hari, he is renowned in the Divya Deśa by the name Aparyāptāmṛta (Not satiating Nectar).

नाहं गृहं त्यजेयं वै इति लक्ष्मीर्व्यवस्य सा ।

नाम्ना सदागृहस्थेति दिव्यदेशे विराजते ॥ ७

நாஹம் க்³ருʼஹம் த்யஜேயம் வை இதிலக்ஷ்மீர்வ்யவஸ்யஸா ।

நாம்நா ஸதா³க்³ருʼஹஸ்தே²தி தி³வ்யதே³ஶே விராஜதே ॥ 7

सा लक्ष्मीः “न अहं गृहं त्यजेयम् वै” इति व्यवस्य सदागृहस्था इति नाम्ना दिव्यदेशे विराजते।

Lakṣmī, having resolved, ‘Surely I shall not leave the residence,’ shines in the Divya Deśa under the name Sadāgṛhasthā (one who does not step out – Padi thaanda Pathini).

तस्यै कोमलवल्ल्यै हि महालक्ष्म्यै नमो नमः ।
तस्मैश्च शार्ङ्गहस्ताय अपर्याप्तामृताय च ॥ ८

தஸ்யை கோமலவல்ல்யை ஹி மஹாலக்ஷ்ம்யை நமோநமஃ ।

தஸ்மைஶ்ச ஶார்ங்க³ஹஸ்தாய அபர்யாப்தாம்ருʼதாய ச ॥ 8

तस्यै कोमलवल्ल्यै महालक्ष्म्यै नमो नमः। तस्मै च शार्ङ्गहस्ताय अपर्याप्तामृताय नमो नमः। Repeated salutations to Komalavallī, who is Mahālakṣmī. And salutations to Him who bears the Śārṅga bow in His hand (Sharrngapaani) and who is known as Aparyāptāmṛta (Aaravaamudhan).

Leave a comment