Literal Meaning of Gita Verses 2-11 to 2-72
श्रीमते भगवते वासुदेवाय नम:
श्रीभगवानुवाच ।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११॥
śrībhagavānuvāca ।
aśōcẏānanvaśōcastvaṁ prajñāvādāṁśca bhāṣasē ।
gatāsūnagatāsūṁśca nānuśōcanti paṇḍitā: ॥ 2-11॥
पदच्छेद:
अशोच्यान् अन्वशोच: त्वम् प्रज्ञावादान् च भाषसे गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः
अन्वय:
श्री भगवान् उवाच
त्वम् प्रज्ञावादान् च भाषसे अशोच्यान् अन्वशोचः । पन्डिताः गतासून् अगतासून् च न अनुशोचन्ति ।
Shri Bhagavaan said:
You are speaking words of wisdom (apparently) but concerned about things that are not to be worried. The scholars do not grieve for neither living (not gone soul) nor dead (gone body).
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२॥
na tvēvāhaṁ jātu nāsaṁ na tvaṁ nēmē janādhipā: ।
na caiva na bhaviṣẏāmaṃ sarvē vaẏamataṃ param ॥ 2-12॥
पदच्छेद:
न तु एव अहम् जातु न आसं न त्वं न इमे जनाधिपाः न च एव न भविष्यामः सर्वे वयम् अतः परम्
अन्वय:
न जातु एव अहं तु न आसम् न त्वं न इमे जनाधिपाः | अतः परं न च एव सर्वे वयं न भविष्यामः |
There was never a time in the past, indeed I did not exist, neither you nor these Kings. There will be no time even in future, that all of us will cease to exist.
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३॥
dēhinōऽsminẏathā dēhē kaumāraṁ ẏauvanaṁ jarā ।
tathā dēhāntaraprāptirdhīrastatra na muhẏati ॥ 2-13॥
पदच्छेद:
देहिन: अस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्ति: धीर: तत्र न मुह्यति
अन्वय:
देहिनः अस्मिन् देहे यथा कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः । तत्र धीरः न मुह्यति ।
Just like embodied souls in this body undergo stages like childhood, youthhood and old age, in the same manner obtains change of body. The wise do not get bewildered by that.
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४॥
mātrāsparśāstu kauntēẏa śītōṣṇasukhaduṃkhadā: ।
āgamāpāẏinōऽnitẏāstāṁstitikṣasva bhārata ॥ 2-14॥
पदच्छेद:
मात्रास्पर्शा: तु कौन्तेय शीतोष्णसुखदुःखदाः आगमापायिन: अनित्या: तान् तितिक्षस्व भारत
अन्वय:
कौन्तेय! शीतोष्णसुखदुःखदाः तु मात्रास्पर्शाः आगमापायिनः अनित्या: । भारत ! तान् तितिक्षस्व ।
Kunti’s Son ! Cold and Heat, Happiness and sorrow are felt out of sensory perceptions, they come and leave, not permanent. Descendent of Bharata! Tolerate them.
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ २-१५॥
ẏaṁ hi na vẏathaẏantẏētē puruṣaṁ puruṣarṣabha ।
samaduṃkhasukhaṁ dhīraṁ sōऽmr̥tatvāẏa kalpatē ॥ 2-15॥
पदच्छेद:
यं हि न व्यथयन्ति एते पुरुषं पुरुषर्षभ समदुःखसुखं धीरं स: अमृतत्वाय कल्पते
अन्वय:
पुरुषर्षभ ! एते यं पुरुषं समदुःखसुखं धीरं न व्यथतयन्ति | सः अमृतत्वाय कल्पते ।
Bull among men! These things, do not affect one who is wise, equal to happiness and sorrow. He is eligible for immortality.
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ २-१६॥
nāsatō vidẏatē bhāvō nābhāvō vidẏatē sataṃ ।
ubhaẏōrapi dr̥ṣṭōऽntastvanaẏōstattvadarśibhi: ॥ 2-16॥
पदच्छेद:
न असत: विद्यते भाव: न अभाव: विद्यते सतः उभयो: अपि दृष्ट: अन्त: अनयो: तत्त्वदर्शिभिः
अन्वय:
असतः भावः न विद्यते, सतः अभावः न विद्यते । अनयोः उभयोः अपि अन्तः तत्त्वदर्शिभिः दृष्टः |
Unreal never had existence while real never had non-existence. The difference between these two have been seen by Seers of truth (self realized sages).
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥
avināśi tu tadviddhi ẏēna sarvamidaṁ tatam ।
vināśamavẏaẏasẏāsẏa na kaścitkartumarhati ॥ 2-17॥
पदच्छेद:
अविनाशि तु तत् विद्धि येन सर्वम् इदं ततम् विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति
अन्वय:
येन इदं सर्वं ततं तत् तु अविनाशि विध्दि । अस्य अव्ययस्य विनाशं कर्तुं कश्चित् न अर्हति ।
By that (soul), all this (body) is pervaded, indeed know that one is (soul) is indestructible. No one will be able to destroy that imperishable one (soul).
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ २-१८॥
पदच्छेद:
अन्तवन्त: इमे देहा: नित्यस्य उक्ताः शरीरिणः अनाशिन: अप्रमेयस्य तस्मात् युध्यस्व भारत
अन्वय:
अनाशिनः अप्रमेयस्य नित्यस्य सरीरिणः इमे देहाः अन्तवन्तः उक्ताः । भारत ! तस्मात् युध्यस्व ।
These bodies of indestructible, immeasurable, eternal, embodied souls are said to be perishable. Therefore, descendent of Bharata, fight.
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २-१९॥
ẏa ēnaṁ vētti hantāraṁ ẏaścainaṁ manẏatē hatam ।
ubhau tau na vijānītō nāẏaṁ hanti na hanẏatē ॥ 2-19॥
पदच्छेद:
य: एनं वेत्ति हन्तारं य: च एनं मन्यते हतम् उभौ तौ न विजानीत: न अयं हन्ति न हन्यते
अन्वय:
यः एनं हन्तारं वेत्ति यः च एनं हतं मन्यते तौ उभौ न विजानीतः । अयं न हन्ति न हन्यते ।
One who understands that it (soul) as killer and one who considers it as killed, both have not understood. It (Soul) neither kills nor gets killed.
न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २-२०॥
na jāẏatē mriẏatē vā kadācin nāẏaṁ bhūtvā bhavitā vā na bhūẏa: ।
ajō nitẏaṃ śāśvatōऽẏaṁ purāṇō na hanẏatē hanẏamānē śarīrē ॥ 2-20॥
पदच्छेद:
न जायते म्रियते वा कदाचित् न अयं भूत्वा भविता वा न भूयः अज: नित्यः शाश्वत: अयं पुराण: न हन्यते हन्यमाने शरीरे
अन्वय:
अयं कदाचित् न जायते न वा म्रियते । अयम् भूत्वा न भूयः वा भविता । अयं अजः नित्यः शाश्वतः पुराणः हन्यमाने शरिरे न च हन्यते ।
That one (soul) is never born or dies. Having become already, it has not become or will become. It is unborn, permanent, eternal, oldest and not killed when body is killed.
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २-२१॥
vēdāvināśinaṁ nitẏaṁ ẏa ēnamajamavẏaẏam ।
kathaṁ sa puruṣaṃ pārtha kaṁ ghātaẏati hanti kam ॥ 2-21॥
पदच्छेद:
वेद: अविनाशिनं नित्यं य: एनम् अजम् अव्ययम् कथं स: पुरुषः पार्थ कं घातयति हन्ति कम्
अन्वय:
पार्थ! यः एनम् अविनाशिनं नित्यम् अजम् अव्ययं वेद: सः पुरुषः कं कथं घातयति ? कं हन्ति ?
Son of Prtha! One who knows that this one (soul) as indestructible, eternal, unborn, unchangeable, how that person causes to kill some one or kills some one?
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २-२२॥
vāsāṁsi jīrṇāni ẏathā vihāẏa navāni gr̥hṇāti narōऽparāṇi ।
tathā śarīrāṇi vihāẏa jīrṇānẏanẏāni saṁẏāti navāni dēhī ॥ 2-22॥
पदच्छेद:
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नर: अपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही
अन्वय:
यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि गृह्णाति तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति ।
Just like a person having given up worn out clothes and wears other new clothes, in the same manner, embodied soul having left worn out bodies, obtains other new ones.
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २-२३॥
nainaṁ chindanti śastrāṇi nainaṁ dahati pāvaka: ।
na cainaṁ klēdaẏantẏāpō na śōṣaẏati māruta ॥ 2-23॥
पदच्छेद:
न एनं छिन्दन्ति शस्त्राणि न एनं दहति पावकः न च एनं क्लेदयन्ति आप: न शोषयति मारुतः
अन्वय:
शस्त्राणि एनम् न छिन्दन्ति । पावकः एनम् न दहति ।आपः एनम् न क्लेदयन्ति । मारुतः एनम् न शोषयति I
Weapons can not cut it. Fire can not burn it. Water can not wet it. Wind can not dry it.
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥
acchēdẏōऽẏamadāhẏōऽẏamaklēdẏōऽśōṣẏa ēva ca ।
nitẏaṃ sarvagataṃ sthāṇuracalōऽẏaṁ sanātana: ॥ 2-24॥
पदच्छेद:
अच्छेद्य: अयम् अदाह्य: अयम् अक्लेद्य: अशोष्य: एव च नित्यः सर्वगतः स्थाणु: अचल: अयं सनातनः
अन्वय:
अयम् अच्छेद्य: | अयम् अदाह्य: अक्लेद्य: अशोष्य: एव च | अयं नित्यः सर्वगतः स्थाणु: अचल: सनातनः |
It is unbreakable, it is non-burnable, non-dissolvable and also non-dryable. It is permanent, all pervading, fixed, non-moveable and eternal.
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २-२५॥
avẏaktōऽẏamacintẏōऽẏamavikārẏōऽẏamucẏatē ।
tasmādēvaṁ viditvainaṁ nānuśōcitumarhasi ॥ 2-25॥
पदच्छेद:
अव्यक्त: अयम् अचिन्त्य: अयम् अविकार्य: अयम् उच्यते तस्मात् एवं विदित्वा एनं न अनुशोचितुम् अर्हसि
अन्वय:
अयम् अव्यक्तः। अयम् अचिन्त्यः । अयम् अविकार्यः उच्यते । तस्मात् एवम् एनं विदित्वा अनुशोचितुं न अर्हसि ।
It is unmanifest. It is inconceivable. It is said to be unchangeable. Therefore, having known it in this manner, one should not deserve to lament.
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २-२६॥
atha cainaṁ nitẏajātaṁ nitẏaṁ vā manẏasē mr̥tam ।
tathāpi tvaṁ mahābāhō naivaṁ śōcitumarhasi ॥ 2-26॥
पदच्छेद:
अथ च एनं नित्यजातं नित्यं वा मन्यसे मृतम् तथापि त्वं महाबाहो न एवं शोचितुम् अर्हसि
अन्वय:
महाबाहो! अथ च एनं नित्यजातं नित्यं वा मृतं मन्यसे तथा अपि एवं त्वम् शोचितुं न अर्हसि ।
Mighty armed ! If you consider it is always born, born and dead again and again, even then you do not deserve to worry.
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २-२७॥
jātasẏa hi dhruvō mr̥tẏurdhruvaṁ janma mr̥tasẏa ca ।
tasmādaparihārẏēऽrthē na tvaṁ śōcitumarhasi ॥ 2-27॥
पदच्छेद:
जातस्य हि ध्रुव: मृत्यु: ध्रुवं जन्म मृतस्य च तस्मात् अपरिहार्ये अर्थे न त्वं शोचितुम् अर्हसि
अन्वय:
जातस्य मृत्युः ध्रुवः हि । मृतस्य जन्म च ध्रुवम् । तस्मात् अपरिहार्ये अर्थे त्वं शोचितुं न अर्हसि ।
Death is certain of one who is born. Rebirth also is certain of dead. Therefore, in this unavoidable thing you do not deserve to grieve.
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २- २८
avẏaktādīni bhūtāni vẏaktamadhẏāni bhārata ।
avẏaktanidhanānẏēva tatra kā paridēvanā ॥ 2- 28
पदच्छेद:
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनानि एव तत्र का परिदेवना
अन्वय:
भारत! भूतानि अव्यक्तादीनि व्यक्तमद्यानि अव्यक्तनिधनानि एव । तत्र का परिदेवना ?
Descendent of Bharata, All living beings are unevolved first, evolved in between and unevolved in the end. What is there to lament?
आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २-२९॥
āścarẏavatpaśẏati kaścidēna- māścarẏavadvadati tathaiva cānẏaṃ ।
āścarẏavaccainamanẏaṃ śar̥ṇōti śrutvāpẏēnaṁ vēda na caiva kaścit ॥ 2-29॥
पदच्छेद:
आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अन्यः आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनं वेद न च एव कश्चित्
अन्वय:
कश्चित् एनम् आश्चर्यवत् पश्यति, तथा एव अन्यः च आश्चर्यवत् वदति, अन्यः च एनम् आश्चर्यवत् शृणोति । कश्चित् एनं शृत्वा अपि न च एव वेद ।
Some see the soul as amazing, some speak of it as amazing, while others heard of it as amazing. Some even after having heard about it, do not understand it.
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ २-३०॥
dēhī nitẏamavadhẏōऽẏaṁ dēhē sarvasẏa bhārata ।
tasmātsarvāṇi bhūtāni na tvaṁ śōcitumarhasi ॥ 2-30॥
पदच्छेद:
देही नित्यम् अवध्य: अयं देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि
अन्वय:
भारत! अयं देही सर्वस्य देहे नित्यम् अवध्यः । तस्मात् त्वं सर्वाणि भूतानि शोचितुं न अर्हसि ।
Descendent of Bharata ! This soul in body of everyone is permanent, non-killable. Therefore, you do not deserve to grieve for all living beings.
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ २-३१॥
svadharmamapi cāvēkṣẏa na vikampitumarhasi ।
dharmẏāddhi ẏuddhācchrēẏōऽnẏatkṣatriẏasẏa na vidẏatē ॥ 2-31॥
पदच्छेद:
स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि धर्म्यात् हि युद्धात् श्रेय: अन्यत् क्षत्रियस्य न विद्यते
अन्वय:
स्वधर्मं च अपि अवेक्ष्य विकम्पितुं न अर्हसि । क्षत्रियस्य हि धर्म्यात् युध्दात् अन्यत् श्रेयः न विद्यते ।
Even considering one’s own duty, you do not deserve to agitate. There is nothing superior to righteous war indeed existing for warrior class.
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ २-३२॥
ẏadr̥cchaẏā cōpapannaṁ svargadvāramapāvr̥tam ।
sukhinaṃ kṣatriẏāṃ pārtha labhantē ẏuddhamīdr̥śam ॥ 2-32॥
पदच्छेद:
यदृच्छया च उपपन्नं स्वर्गद्वारम् अपावृतम् सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्
अन्वय:
पार्थ! सुखिनः क्षत्रियाः यदृच्छया उपपन्नम् अपावृतं च स्वर्गद्वारम् ईदृशं युध्दं लभन्ते ।
Son of Prtha! Fortunate warrior classes have by chance obtained arrival of this kind of war, opening of entry to heaven.
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३॥
atha cēttvamimaṁ dharmẏaṁ saṅgrāmaṁ na kariṣẏasi ।
tataṃ svadharmaṁ kīrtiṁ ca hitvā pāpamavāpsẏasi ॥ 2-33॥
पदच्छेद:
अथ चेत् त्वम् इमं धर्म्यं सङ्ग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि
अन्वय:
अथ चेत् त्वम् इमम् धर्म्यं सम्ग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ।
However, if you do not carry out this righteous war, then having given up duty of own class and also fame, you will obtain sins.
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ २-३४॥
akīrtiṁ cāpi bhūtāni kathaẏiṣẏanti tēऽvẏaẏām ।
sambhāvitasẏa cākīrtirmaraṇādatiricẏatē ॥ 2-34॥
पदच्छेद:
अकीर्तिं च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् सम्भावितस्य च अकीर्ति: मरणात् अतिरिच्यते
अन्वय:
भूतानि च ते अव्ययाम् अकीर्तिं च अपि कथयिष्यन्ति । अकीर्तिः सम्भावितस्य च मरणात् अतिरिच्यते ।
People would be speak of your infamy, that can not be changed for ever. infamy is more than death for honourable person.
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ २-३५॥
bhaẏādraṇāduparataṁ maṁsẏantē tvāṁ mahārathāṃ ।
ẏēṣāṁ ca tvaṁ bahumatō bhūtvā ẏāsẏasi lāghavam ॥ 2-35॥
पदच्छेद:
महारथाः येषां च त्वं बहुमत: भूत्वा यास्यसि लाघवम् त्वां भयात् रणात् उपरतं मंस्यन्ते
अन्वय:
महारथाः च येषां त्वं बहुमतः भूत्वा लाघवं यास्यसि | (ते) त्वां भयात् रणात् उपरतं मंस्यन्ते (इति)
Among those great warriors who had held you in high esteem, you would go down small. They would mock, that you had left the battle field out of fear,
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ २-३६॥
avācẏavādāṁśca bahūnvadiṣẏanti tavāhitāṃ ।
nindantastava sāmarthẏaṁ tatō duṃkhataraṁ nu kim ॥ 2-36॥
पदच्छेद:
अवाच्यवादान् च बहून् वदिष्यन्ति तव अहिताः निन्दन्त: तव सामर्थ्यं तत: दुःखतरं नु किम्
अन्वय:
तव अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्यवादान् च वदिष्यन्ति । ततः दुःखतरं नु किम् ?
Your enemies criticizing your ability will speak many ill words. What is more miserable than that?
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ २-३७॥
पदच्छेद:
हत: वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः
अन्वय:
कौन्तेय! हतः वा स्वर्गं प्राप्स्यसि जित्वा वा महीं भोक्ष्यसे । तस्मात् युध्दाय कृतनिस्चयः उत्तिष्ठ ।
Kunti’s son! If killed you will obtain heaven or if won you will enjoy the earth. Therefore, get up , resolving certainly for the war.
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥
sukhaduṃkhē samē kr̥tvā lābhālābhau jaẏājaẏau ।
tatō ẏuddhāẏa ẏujẏasva naivaṁ pāpamavāpsẏasi ॥ 2-38॥
पदच्छेद:
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ तत: युद्धाय युज्यस्व न एवं पापम् अवाप्स्यसि
अन्वय:
सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा ततः युध्दाय युज्यस्व । एवं पापं न अवाप्स्यसि ।
Having kept equanimity in happiness and distress, gain and loss, victory and defeat, fight for the sake of fighting. In this manner, you will not obtain sins.
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ २-३९॥
ēṣā tēऽbhihitā sāṅkhẏē buddhirẏōgē tvimāṁ śar̥ṇu ।
buddhẏā ẏuktō ẏaẏā pārtha karmabandhaṁ prahāsẏasi ॥ 2-39॥
पदच्छेद:
एषा ते अभिहिता साङ्ख्ये बुद्धि योगे तु इमां शृणु बुद्ध्या युक्त: यया पार्थ कर्मबन्धं प्रहास्यसि
अन्वय:
पार्थ! एषा बुध्दिः ते साङ्ख्ये अभिहिता । योगे इमाम् शृणु यया बुद्ध्या युक्तः कर्मबन्धम् प्रहास्यसि ।
Prtha’s son ! This intelligence is described for you is under Sankhya (intellectual reasoning). Now listen under Yoga (Karma yoga – work without attachment), by that intelligence, get involved and get released from bondage of work.
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २-४०॥
nēhābhikramanāśōऽsti pratẏavāẏō na vidẏatē ।
svalpamapẏasẏa dharmasẏa trāẏatē mahatō bhaẏāt ॥ 2-40॥
पदच्छेद:
न इह अभिक्रमनाश: अस्ति प्रत्यवाय: न विद्यते स्वल्पम् अपि अस्य धर्मस्य त्रायते महत: भयात्
अन्वय:
इह अभिक्रमनाशः नास्ति, प्रत्यवायः न विद्यते, अस्य धर्मस्य स्वल्पमपि महतः भयात् त्रायते ।
In this, there is no unsuccessful effort , Sin does not arise. Even a small effort of this concept, protects from great fear.
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ २-४१॥
vẏavasāẏātmikā buddhirēkēha kurunandana ।
bahuśākhā hẏanantāśca buddhaẏōऽvẏavasāẏinām ॥ 2-41॥
पदच्छेद:
व्यवसायात्मिका बुद्धि: एका इह कुरुनन्दन बहुशाखा: हि अनन्ता: च बुद्धय: अव्यवसायिनाम्
अन्वय:
कुरुनन्दन! इह व्यवसायात्मिका बुध्दिः एका, अव्यवसायिनाम् च बुध्दयः बहुशाखा: अनन्ताः हि ।
Descendent of Kurus, in this (yoga), resolute intelligence is characterized by one concept, intelligence of irresolute has many branches with unlimited concepts.
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ २-४२॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ २-४३॥
ẏāmimāṁ puṣpitāṁ vācaṁ pravadantẏavipaścitaṃ ।
vēdavādaratāṃ pārtha nānẏadastīti vādinaṃ ॥ 2-42॥
kāmātmānaṃ svargaparā janmakarmaphalapradām ।
kriẏāviśēṣabahulāṁ bhōgaiśvarẏagatiṁ prati ॥ 2-43॥
पदच्छेद:
याम् इमां पुष्पितां वाचं प्रवदन्ति अविपश्चितः वेदवादरताः पार्थ न अन्यत् अस्ति इति वादिनः कामात्मानः स्वर्गपरा: जन्मकर्मफलप्रदाम् क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति
अन्वय:
पार्थ! कामात्मनः स्वर्गपराः वेदवादरताः न अन्यत् अस्ती इति वादिनः अविपश्चितः जन्मकर्मफलप्रदां भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलाम् इमां पुष्पितां यां वाचं प्रवदन्ति ।
Prtha’s son ! People interested in fulfilling desires, having attaining heaven as objective, followers of vedas, who advocate that there is nothing else, who have not understood the essence, directed towards obtaining pleasure and power, carrying out many ceremonies, attached to fructive actions, speak these flowery words.
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४॥
bhōgaiśvarẏaprasaktānāṁ taẏāpahr̥tacētasām ।
vẏavasāẏātmikā buddhiṃ samādhau na vidhīẏatē ॥ 2-44॥
पदच्छेद:
भोगैश्वर्यप्रसक्तानां तया अपहृतचेतसाम् व्यवसायात्मिका बुद्धिः समाधौ न विधीयते
अन्वय:
तया अपहृतचेतसां भोगैश्वर्यप्रसक्तानां बुध्दिः व्यवसायात्मिका समाधौ न विधीयते
By that Intelligence of deviated minds, attached to wealth and power, resoluteness and concentrated mind is not attained.
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ २-४५॥
traiguṇẏaviṣaẏā vēdā nistraiguṇẏō bhavārjuna ।
nirdvandvō nitẏasattvasthō nirẏōgakṣēma ātmavān ॥ 2-45॥
पदच्छेद:
त्रैगुण्यविषया: वेदा: निस्त्रैगुण्य: भव अर्जुन निर्द्वन्द्व: नित्यसत्त्वस्थ: निर्योगक्षेम: आत्मवान्
अन्वय:
अर्जुन ! वेदाः त्रैगुन्यविशयाः । निस्त्रैगुन्यः निर्द्वन्द्वः नित्य्सत्त्वस्थः निर्योगक्षेमः आत्मवान् भव ।
Arjuna, Vedas are subjects of three modes of material nature. You transcend the modes of material nature, be free from pairs of opposites, remain always in the mode of goodness, non-materialistic and self-satisfied.
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६॥
ẏāvānartha udapānē sarvataṃ samplutōdakē ।
tāvānsarvēṣu vēdēṣu brāhmaṇasẏa vijānataṃ ॥ 2-46॥
पदच्छेद:
यावान् अर्थ: उदपाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः
अन्वय:
यावान् अर्थः सम्प्लुतोदके तावान् उदपाने सर्वतः विजानतः ब्राह्मणस्य सर्वेषु वेदेषु
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७॥
karmaṇẏēvādhikārastē mā phalēṣu kadācana ।
mā karmaphalahēturbhūrmā tē saṅgōऽstvakarmaṇi ॥ 2-47॥
पदच्छेद:
कर्मणि एव अधिकार: ते मा फलेषु कदाचन मा कर्मफलहेतु: भू: मा ते सङ्ग: अस्तु अकर्मणि
अन्वय:
कर्मणि एव ते अधिकारः । फलेषु कदाचन मा । कर्मफलहेतुः मा भूः । अकर्मनि ते सङ्गः मा अस्तु ।
Your right is only work, never in the fruits of work. Don’t assume as cause of fruits of work. Let your attachment be not on non work.
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ २-४८॥
ẏōgasthaṃ kuru karmāṇi saṅgaṁ tẏaktvā dhanañjaẏa ।
siddhẏasiddhẏōṃ samō bhūtvā samatvaṁ ẏōga ucẏatē ॥ 2-48॥
पदच्छेद:
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्योः सम: भूत्वा समत्वं योग: उच्यते
अन्वय:
धनञ्जय! सङ्गं त्यक्त्वा सिद्ध्यसिद्ध्योः समः भूत्वा योगस्थः कर्माणि कुरु । समत्वं योगः उच्यते ।
Winner of wealth, giving up attachment, equal to success and failure, remaining in yoga, do your work. Equanimity of mind is called yoga.
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ २-४९॥
dūrēṇa hẏavaraṁ karma buddhiẏōgāddhanañjaẏa ।
buddhau śaraṇamanviccha kr̥paṇāṃ phalahētavaṃ ॥ 2-49॥
पदच्छेद:
दूरेण हि अवरं कर्म बुद्धियोगात् धनञ्जय बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः
अन्वय:
धनञ्जय ! बुध्दियोगात् अवरम् कर्म दूरेण हि , बुध्दौ शरणम् अन्विच्छ । फलहेतवः कृपणाः
Winner of wealth, by intelligence keeping aside the inferior activities to a distance, desire shelter to knowledge. Misers assume cause of fruits of work.
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५०॥
buddhiẏuktō jahātīha ubhē sukr̥taduṣkr̥tē ।
tasmādẏōgāẏa ẏujẏasva ẏōgaṃ karmasu kauśalam ॥ 2-50॥
पदच्छेद:
बुद्धियुक्त: जहाति इह उभे सुकृतदुष्कृते तस्मात् योगाय युज्यस्व । योगः कर्मसु कौशलम्
अन्वय:
बुध्दियुक्तः सुकृतदुष्कृते उभे इह जहाति । तस्मात् योगाय युज्यस्व । कर्मसु कौशलं योगः (उच्यते) ।
(Wise), endowed with intelligence, keeps away from the fruits of (good and bad deeds). Therefore, engage in yoga (Karma Yoga). Among the work, Karma Yoga is a skill.
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ २-५१॥
karmajaṁ buddhiẏuktā hi phalaṁ tẏaktvā manīṣiṇaṃ ।
janmabandhavinirmuktāṃ padaṁ gacchantẏanāmaẏam ॥ 2-51॥
पदच्छेद:
कर्मजं बुद्धियुक्ता: हि फलं त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदं गच्छन्ति अनामयम्
अन्वय:
मनीषिणः बुध्दियुक्ताः हि कर्मजं फलं त्यक्त्वा जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति ।
Wise people, endowed with intelligence indeed, giving up fruits borne out of work, released from birth death arising out of bondage, reach safe destination.
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥
ẏadā tē mōhakalilaṁ buddhirvẏatitariṣẏati ।
tadā gantāsi nirvēdaṁ śrōtavẏasẏa śrutasẏa ca ॥ 2-52॥
पदच्छेद:
यदा ते मोहकलिलं बुद्धि: व्यतितरिष्यति तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च
अन्वय:
यदा ते बुध्दिः मोहकलिलं व्यतितरिष्यति तदा श्रोतव्यस्य श्रुतस्य च निर्वेदं गन्तासि ।
When your intelligence crosses the thicket like delusion, then you will become indifferent to what has been heard and to be heard
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ २-५३॥
śrutivipratipannā tē ẏadā sthāsẏati niścalā ।
samādhāvacalā buddhistadā ẏōgamavāpsẏasi ॥ 2-53॥
पदच्छेद:
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला समाधौ अचला बुद्धि: तदा योगम् अवाप्स्यसि
अन्वय:
यदा ते श्रुतिविप्रप्रतिपन्ना बुध्दिः निश्चला समाधौ अचला स्तास्यति तदा योगम् अवाप्स्यसि ।
When your mind not influenced by vedas (fructive work prescribed), remains, unshaken, firm and focussed, then you will obtain perfection in Yoga.
अर्जुन उवाच ।
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ २-५४॥
sthitaprajñasẏa kā bhāṣā samādhisthasẏa kēśava ।
sthitadhīṃ kiṁ prabhāṣēta kimāsīta vrajēta kim ॥ 2-54॥
पदच्छेद:
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव स्थितधीः किं प्रभाषेत किम् आसीत व्रजेत किम्
अन्वय:
अर्जुन उवाच
केशव स्थितप्रज्ञस्य समाधिस्थस्य का भाषा ? स्थितधीः किं प्रभाषेत ? किम् आसीत ? किम् व्रजेत ?
Arjuna Said:
Keshava, What is the language of one who has equanimity of mind and is concentrated? How that wise person speaks? How does he sit? How he wanders?
श्रीभगवानुवाच ।
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ २-५५॥
prajahāti ẏadā kāmānsarvānpārtha manōgatān ।
ātmanẏēvātmanā tuṣṭaṃ sthitaprajñastadōcẏatē ॥ 2-55॥
पदच्छेद:
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञ: तदा उच्यते
अन्वय:
श्री भगवान् उवाच
पार्थ! यदा सर्वान् कामान् मनोगतान् प्रजहाति आत्मना एव आत्मनि तुष्टः तदा स्थितप्रज्ञः उच्यते ।
Shri Bhagavaan Said:
Son of Prtha, when he keeps away from all desires that arises in his mind, self-satisfied by himself, he is said to be a person of steady mind.
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६॥
du:khēṣvanudvignamanāṃ sukhēṣu vigataspr̥haṃ ।
vītarāgabhaẏakrōdhaṃ sthitadhīrmunirucẏatē ॥ 2-56॥
पदच्छेद:
दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः मुनिः स्थितधीः उच्यते ।
अन्वय:
मुनिः दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीः उच्यते
A sage, not perturbed in sorrow, not touched in happiness, devoid of passion, fear and anger is said to person of steady wisdom.
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥
ẏa: sarvatrānabhisnēhastattatprāpẏa śubhāśubham ।
nābhinandati na dvēṣṭi tasẏa prajñā pratiṣṭhitā ॥ 2-57॥
पदच्छेद:
यः सर्वत्र अनभिस्नेह: तत् तत् प्राप्य शुभाशुभम् न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ।
अन्वय:
यः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभं प्राप्य न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ।
One who is not attached everywhere, obtaining whatever good or bad, neither gets delighted nor agitated his wisdom is stable.
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥
ẏadā saṁharatē cāẏaṁ kūrmōऽṅgānīva sarvaśa: ।
indriẏāṇīndriẏārthēbhẏastasẏa prajñā pratiṣṭhitā ॥ 2-58॥
पदच्छेद:
यदा संहरते च अयं कूर्म: अङ्गानि इव सर्वशः इन्द्रियानि इन्द्रियार्थेभ्य: तस्य प्रज्ञा प्रतिष्ठिता
अन्वय:
यदा अयं सर्वशः इन्द्रियानि इन्द्रियेभ्यः संहरते कूर्मः अङ्गानि इव तस्य प्रज्ञा प्रथिष्ठिता ।
When he withdraws all senses from sense objects, like Tortoise it’s limbs, his mind is steady.
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ २-५९॥
viṣaẏā vinivartantē nirāhārasẏa dēhina: ।
rasavarjaṁ rasōऽpẏasẏa paraṁ dr̥ṣṭvā nivartatē ॥ 2-59॥
पदच्छेद:
विषया: विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं रस: अपि अस्य परं दृष्ट्वा निवर्तते
अन्वय:
निराहारस्य देहिनः विषयाः रसवर्जं विनिवर्तन्ते अस्य रसः अपि परं दृष्ट्वा निवर्तते
The senses of one who is practising detachment, except taste turn away. Even his taste turns away when Supreme Brahman is realized.
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥
ẏatatō hẏapi kauntēẏa puruṣasẏa vipaścita: ।
indriẏāṇi pramāthīni haranti prasabhaṁ mana: ॥ 2-60॥
पदच्छेद:
यतत: हि अपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः
अन्वय:
कौन्तेय ! प्रमाथीनि इन्द्रियाणि पुरुषस्य यततः विपश्चितः हि अपि मनः प्रसभं हरन्ति ।
Kunti’s Son! Indeed Very powerful senses take away by force, mind of even person indifferent endeavouring person.
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥
tāni sarvāṇi saṁẏamẏa ẏukta āsīta matpara: ।
vaśē hi ẏasẏēndriẏāṇi tasẏa prajñā pratiṣṭhitā ॥ 2-61॥
पदच्छेद:
तानि सर्वाणि संयम्य युक्त: आसीत मत्परः वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता
अन्वय:
युक्तः तानि सर्वाणि संयम्य मत्परः आसीत । यस्य वशे इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।
A perfected person) keeping all those (senses) under control, mediates in me. In whose control, senses are there, his mind is stable.
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३॥
dhẏāẏatō viṣaẏānpuṁsaṃ saṅgastēṣūpajāẏatē ।
saṅgātsañjāẏatē kāmaṃ kāmātkrōdhōऽbhijāẏatē ॥ 2-62॥
krōdhādbhavati sammōhaṃ sammōhātsmr̥tivibhrama: ।
smr̥tibhraṁśād buddhināśō buddhināśātpraṇaśẏati ॥ 2-63॥
पदच्छेद:
ध्यायत: विषयान् पुंसः सङ्ग: तेषु उपजायते , सङ्गात् सञ्जायते कामः कामात् क्रोध: अभिजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशाद् बुद्धिनाश: बुद्धिनाशात् प्रणश्यति
अन्वय:
विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते , सङ्गात् कामः सञ्जायते, कामात् क्रोधः अभिजायते, क्रोधात् संमोहः भवति, संमोहात् स्मृतिविभ्रमः स्मृतिभ्रम्शात् बुध्दिनाशः, बुध्दि नाशात् प्रणश्यति ।
In the senses of contemplating person, attachment develops, from attachment desire develops, from desire anger arises (when desire unfulfilled), from anger delusion develops, from delusion loss of memory arises, loss of memory leads to loss of intelligence, from loss of intelligence destruction arises.
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ २-६४॥
rāgadvēṣavimuktaistu viṣaẏānindriẏaiścaran ।
ātmavaśẏairvidhēẏātmā prasādamadhigacchati ॥ 2-64॥
पदच्छेद:
रागद्वेषविमुक्तै: तु विषयान् इन्द्रियै: चरन् आत्मवश्यै: विधेयात्मा प्रसादम् अधिगच्छति ।
अन्वय:
विधेयात्मा विशयान् चरन् तु रागद्वेषवियुक्तैः आत्मवश्यैः इन्द्रियैः प्रसादम् अधिगच्छति ।
One with regulated mind, while acting on senses indeed free of passion and envy, by keeping senses under control attains supreme bliss.
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥
prasādē sarvaduṃkhānāṁ hānirasẏōpajāẏatē ।
prasannacētasō hẏāśu buddhiṃ parẏavatiṣṭhatē ॥ 2-65॥
पदच्छेद:
प्रसादे सर्वदुःखानां हानि: अस्य उपजायते प्रसन्नचेतस: हि आशु बुद्धिः पर्यवतिष्ठते
अन्वय:
प्रसादे अस्य सर्वदुःखानां हानिः उपजायते । प्रसन्नचेतसः हि बुध्दिः आशु पर्यवर्तिष्ठते ।
In such a blissful state all his miseries get vanished. The intelligence of blissful mind quickly becomes stable.
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ २-६६॥
nāsti buddhiraẏuktasẏa na cāẏuktasẏa bhāvanā ।
na cābhāvaẏataṃ śāntiraśāntasẏa kutaṃ sukham ॥ 2-66॥
पदच्छेद:
नास्ति बुद्धि: अयुक्तस्य न च अयुक्तस्य भावना न च अभावयतः शान्ति: अशान्तस्य कुतः सुखम्
अन्वय:
अयुक्तस्य बुध्दिः नास्ति । अयुक्तस्य च भावना न । अभावयतः च शान्तिः न । अशान्तस्य कुतः शुखम् ?
One who is nor perfected, there is no steady mind and no contemplation of self. When there is no contemplation , there is no peace. Where is the happiness for one who is not at peace.
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७॥
indriẏāṇāṁ hi caratāṁ ẏanmanōऽnuvidhīẏatē ।
tadasẏa harati prajñāṁ vāẏurnāvamivāmbhasi ॥ 2-67॥
पदच्छेद:
इन्द्रियाणां हि चरतां यत् मन: अनुविधीयते तत् अस्य हरति प्रज्ञां वायु: नावम् इव अम्भसि
अन्वय:
यत् मनः अनुविधीयते चरतां हि इन्द्रियाणां तत् अस्य प्रज्ञां वायुः अम्भसि नावम् इव हरति ।
Even when mind remain steady, wavering of senses can carry that person’s intelligence like powerful wind taking away the boat in water.
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥
tasmādẏasẏa mahābāhō nigr̥hītāni sarvaśa: ।
indriẏāṇīndriẏārthēbhẏastasẏa prajñā pratiṣṭhitā ॥ 2-68॥
पदच्छेद:
तस्मात् यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणी इन्द्रियार्थेभ्य: तस्य प्रज्ञा प्रतिष्ठिता
अन्वय:
महाबाहो ! तस्मात् यस्य सर्वशः इन्द्रियाणी इन्द्रियार्थेभ्यः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता ।
Mighty armed, therefore, whose all senses are kept away from sense objects his wisdom is firmly established.
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९॥
ẏā niśā sarvabhūtānāṁ tasẏāṁ jāgarti saṁẏamī ।
ẏasẏāṁ jāgrati bhūtāni sā niśā paśẏatō munē: ॥ 2-69॥
पदच्छेद:
या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सा निशा पश्यत: मुनेः
अन्वय:
सर्वभूतानाम् या निशा तस्याम् संयमी जागर्ति, यस्यां भूतानि जागर्ति सा निशा मुने: पश्यतः ।
What is night of all living beings, that is wakefulness of regulated ascetic, what is wakefulness of living beings is state of blissfulness of the sage.
(Implied: While normal person is in darkness, self realized person is illumined, while normal person is engaging in activities, sage refrains his senses from sense objects).
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ २-७०॥
āpūrẏamāṇamacalapratiṣṭhaṁ samudramāpaṃ praviśanti ẏadvat ।
tadvatkāmā ẏaṁ praviśanti sarvē sa śāntimāpnōti na kāmakāmī ॥ 2-70॥
पदच्छेद:
आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् तद्वत् कामा: यं प्रविशन्ति सर्वे स: शान्तिम् आप्नोति न कामकामी
अन्वय:
यद्वत् आपः आपूर्यमाणम् अचलप्रतिष्ठं समुद्रं प्रविशन्ति तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिम् आप्नोति, न कामकामी ।
As water from rivers continuously enter fully filled ocean, but that ocean still remains steady, in the same manner all desires entering that person Sage, who is unmoved obtains peace not the person hankering for desires.
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ २-७१॥
vihāẏa kāmānẏaṃ sarvānpumāṁścarati niṃspr̥ha: ।
nirmamō nirahaṅkāraṃ sa śāntimadhigacchati ॥ 2-71॥
पदच्छेद:
विहाय कामान् य: सर्वान् पुमान् चरति निःस्पृहः निर्मम: निरहङ्कारः स: शान्तिम् अधिगच्छति
अन्वय:
यः पुमान् सर्वान् कामान् विहाय निःस्पृहः निर्ममः निरहङ्कारः चरति सः शान्तिम् अधिगच्छति ।
One who giving up all desires, remain4s without attachment, without possession, without self pride he attains peace.
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ २-७२॥
ēṣā brāhmī sthitiṃ pārtha naināṁ prāpẏa vimuhẏati ।
sthitvāsẏāmantakālēऽpi brahmanirvāṇamr̥cchati ॥ 2-72॥
पदच्छेद:
एषा ब्राह्मी स्थितिः पार्थ न एनां प्राप्य विमुह्यति स्थित्वा अस्याम् अन्तकाले अपि ब्रह्मनिर्वाणम् ऋच्छति
अन्वय:
पार्थ! एषा ब्राह्मी स्थितिः एनां प्राप्य न विमुह्यति । अन्तकाले अपि अस्यां स्थित्वा ब्रह्मनिर्वाणं ऋच्छति ।
Prtha’s son, this is divine state, having obtained this a person never gets deluded. Even at the time of leaving body, remaining in that state, attains pure bliss.